SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १३८ १०-उपासकप्रतिमा-पञ्चाशकम् गाथा-३९-४३ प्रायेण प्राक्प्रतिमास्वपि चिरजीविनामेष क्रमः सम्भवतीति भावः ॥३८॥ एवं प्रतिमां निर्दिश्य तदनन्तरं विधिमाह - भावेऊणऽत्ताणं, उवेइ पव्वज्जमेव सो पच्छा । अहवा गिहत्थभावं, उचियत्तं अप्पणो णाउं॥४८३॥ १०/३९ भावयित्वात्मानं प्रतिमानुष्ठानेन उपैत्युपगच्छति प्रव्रज्यामेव यतित्वमेव श्रमणभूतः स [श्रावकः, अटी.] पश्चात्प्रतिमोत्तरकालम्। अथवा गृहस्थभावं गृहस्थत्वं प्रतिमानुष्ठानविश्रान्त्या उचितत्वं योग्यत्वमात्मनो ज्ञात्वा ॥३९॥ गहणं पव्वज्जाए, जओ अजोगाण णियमतोऽणत्थो । तो तुल्लिऊणऽप्पाणं, धीरा एयं पवज्जंति ॥४८४॥ १०/४० ग्रहणं स्वीकारः, प्रव्रज्यायाः लोकधर्मेभ्यो लोकोत्तरधर्मगमनरूपायाः, यतो यस्माद्, अयोग्यानामनुचितानाम्, नियमतोऽनों नियमादनर्थहेतुः, तत् तस्मात् तुलयित्वा परीक्ष्य, आत्मान धीराः स्थिरा एतां प्रव्रज्यां प्रतिपद्यन्ते स्वीकुर्वन्ति ॥४०॥ तुलणा इमेण विहिणा, एत्तीए हन्दि नियमतो णेया । नो देसविरइकंडगपत्तीए विणा जमेस त्ति ॥४८५॥ १०/४१ तुलनाऽऽत्मपरीक्षा अनेन विधिना प्रतिमागतेन, एतस्याः प्रव्रज्याया हन्त नियमतो ज्ञेया। नो नैव देशविरतिकण्डकप्राप्त्या विना यद् यस्माद् एषैति प्रव्रज्या ॥४१॥ तीए य अविगलाए, बज्झा चेट्ठा जहोदिया पायं । होति णवरं विसेसा, कत्थति लक्खिज्जए न तहा ॥४८६॥ १०/४२ तस्यां च प्रव्रज्यायाम् अविकलायां भावतः सम्पूर्णायां बाह्या चेष्टा यथोदिता यथोक्ता प्रायो बाहुल्येन भवति जायते । नवरं केवलम् । विशेषादपवादात् क्वचिद्देशकालादौ लक्ष्यत। न तथा प्रागिव बाह्या क्रिया न दिश्यत इत्यर्थः । तस्यामदृश्यमानायामप्यविकलैव प्रव्रज्या पुष्टालम्बनादन्यथाऽप्रवृत्तेर्न, क्रियान्यथात्वेऽपि च परिणामो नान्यथा भवति । तस्यैव च तत्त्वतः प्रव्रज्यारूपत्वात्, तदङ्गभावेन क्रियाविधानात्, परिणामप्रेरिता हि क्रिया परमार्थेन । न च कार्याभावात् कारणाभावः। धूमवयादिषु तथाप्रतीतेः सकललोकपरीक्षकन्यायसिद्धत्वात् ॥४२॥ कथं पुनरनर्थहेतुः प्रव्रज्याग्रहणमयोग्यानामित्याह - भवणिव्वेयाउ जतो, मोक्खे रागाउ णाणपुव्वाओ । सुद्धासयस्स एसा, ओहेण वि वणिया समए ॥४८७॥ १०/४३
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy