________________
१३०
१०- उपासकप्रतिमा-पञ्चाशकम्
बोंदी तनुः कुग्रहकलङ्करहिता कुत्सिताभिनिवेशदोषवर्जिता । मिथ्यात्वक्षयोपशमभावात् मिथ्यादर्शन मोहनीयकर्मक्षयोपशमभावेन ||४||
कारणाभावात् कार्याभावमाह -
गाथा-५-७
मिच्छत्तं कुग्गहकारणं ति खओवसममुवगए तम्मि ।
ण तओ कारणविगलत्तणेण सदि विसविगासे व्व ॥ ४४९ ॥ १०/५
मिथ्यात्वं कर्म कुग्रहकारणमितिकृत्वा क्षयोपशममुपगते आगते तस्मिन् मिथ्यात्वे न तको न स कुग्रहः । कारणविकलत्वेन मिथ्यादर्शनप्रतिबद्धशक्तित्वेन सर्वदा विषविकारवत् । यथा प्रतिबद्धसामर्थ्ये विषे मन्त्रादिना तद्विकारभावस्तद्वद् मिथ्यात्वे प्रतिस्खलितशक्तिके कुग्रहाभावः॥५॥
कीदृक् प्रथमप्रतिमाव्यवस्थित इति प्रतिपादनायाह -
होइ अणाभोगजुओ, ण विवज्जयवं तु एस धम्मम्मि । अत्थिक्कादिगुणजुतो, सुहाणुबंधी णिरतियारो ॥ ४५०॥ १०/६
भवति अनाभोगयुतोऽपरिज्ञानसमन्वितो न विपर्ययवांस्तु न विपरीतपरीज्ञानोऽभिनिवेशाद् एष सम्यग्दृष्टिः, धर्मे धर्मविषये श्रुतचारित्रधर्म इत्यर्थः । आस्तिक्यादिगुणयुतः आस्तिक्याऽनुकम्पा-निर्वेद - संवेग प्रशमगुणान्वितः । सूत्रे तु यथा प्राधान्यमुपन्यासः प्रशमादीनां लाभे तु पश्चानुपूर्वी । शुभोऽनुबन्धो विद्यतेऽस्येति शुभानुबन्धी, निरतिचारः शङ्काद्यतिचाररहितः ॥६॥
•
बोंदी य एत्थ पडिमा विसिट्ठगुणजीवलोगओ भणिया । ता एरिसगुणजोगा, सुहो उ सो खावणत्थं ति ॥४५१॥ १०/७
बोन्दिश्च मूर्तिः चात्र प्रतिमा विशिष्टगुणजीवलोकतो विशिष्टगुणजीवतत्वाद् भणितोक्ता । तत् तस्माद्, ईदृशगुणयोगात् पूर्वोक्तसम्बन्धात्, शुभस्तु शुभ एव जीवलोकः विशिष्टजीवितरूपः ख्यापनार्थमित्यस्यार्थस्य ख्यापनाय विशिष्टगुणजीवलोकतः प्रतिमोच्यते इति सम्बन्ध: । तदभ तु न तत्वतः प्रतिमा, दर्शनीयत्वादिगुणाभावेन, गुणवत एव हि मूर्तिः प्रशंसनीया लोके नान्यस्य, इयं चाचाराङ्गदशाश्रुतस्कन्धानुसारेण तद्विहितानुष्ठानसम्पन्नाऽवसेया, शब्दार्थोऽपि तदनुसारेणैव विज्ञेयो न प्रतिपादितमात्र एव । मूलागमस्य प्रमाणत्वोपपत्तेस्तदविरुद्धस्य चान्यस्याप्यविरुद्धश्चायम्। तेनोपादेय एव शब्दार्थोपपत्तेः सूरिणैवं विवक्षितत्वात् ॥७॥