________________
॥ दशमं उपासकप्रतिमा-पञ्चाशकम् ॥
यात्राविध्यनन्तरं श्रावककर्तव्यतयोपासकप्रतिमा दर्शयन्नाह नमिऊण महावीरं, भव्वहियट्ठाए लेसओ किंपि । वोच्छं समणोवासगपडिमाणं सुत्तमग्गेणं ॥ ४४५ ॥ १०/१
नत्वा भावतो नमस्कृत्य महावीरं महावीर्यर्विराधनाद् भगवन्तं वर्धमानस्वामिनम्, भव्यहितार्थाय भव्यहितोपकाराय, लेशतः सङ्क्षेपेण [ किमपि ] किञ्चित् स्वल्पं वक्ष्ये श्रमणोपासकप्रतिमानां श्रावकप्रतिमानां सूत्रमार्गेणागमपथेन ॥१॥ (१. विराधनाद् - विशेषेण आराधना, इति विराधना, तस्मात् ।)
कियत्यस्ताः श्रमणोपासकप्रतिमा ? इत्याह
समणोवासगपडिमा, एक्कारस जिणवरेहिं पण्णत्ता । दंसणपडिमादीया, सुयकेवलिणा जतो भणियं ॥ ४४६॥ १०/२
-
श्रमणान् साधूनुपासते सेवते ये ते श्रमणोपासकास्तेषां प्रतिमागमोक्ता एकादशा एकेनाधिका दश, जिनवरैः प्रज्ञप्ताः कथिता दर्शनप्रतिमादिकाः श्रुतकेवलिना भद्रबाहुस्वामिना तो भणितमुक्तम् ॥२॥
ता एवाह
दंसणवयसामाइयपोसहपडिमाअबंभसच्चित्ते ।
आरंभपेसउद्दिट्ठवज्जए समणभूए य ॥ ४४७।। १०/३ दारगाहा ।
दर्शनप्रतिमा । व्रतप्रतिमा सामायिकप्रतिमा । पोषधप्रतिमा । प्रतिमाप्रतिमा । अब्रह्मवर्जप्रतिमा । सचित्तवर्जप्रतिमा । आरम्भवर्जप्रतिमा । प्रेष्यारम्भवर्जप्रतिमा । उद्दिष्टभक्तप्रतिमा । श्रमणभूतप्रतिमा च ॥३॥
तत्राद्या व्याचिख्यासुराह -
दंसणपडिमा णेया, सम्मत्तजुयस्स जा इहं बोंदी । कुग्गहकलंकरहिया, मिच्छत्तखओवसमभावा ॥ ४४८ ॥ १०/४
दर्शनप्रतिमा ज्ञेया सम्यक्त्वयुक्तस्य सम्यग्दर्शनिकोपासकरूपा सामान्येन[ या ] इह प्रक्रमे