________________
१२८
९-यात्राविधान-पञ्चाशकम् गाथा-४९-५० इय अण्णत्थ वि सम्मं, णाउं गुरुलाघवं विसेसेणं । इढे पयट्टियव्वं, एसा खलु भगवतो आणा ॥४४३॥ ९/४९
इत्येवमन्यत्रापि प्रस्तुतादन्यत्रार्थे सम्यक् ज्ञात्वा गुरुलाघवं गुणगौरवं दोषलाघवम्, विशेषेण परस्य च विवेकेन इष्टे प्रवर्तितव्यमभिमत एव प्रवृत्तिर्विधेया। एषा खलु एषैव भगवत आज्ञा सर्वज्ञस्योपदेशः ॥४९॥
प्रकरणमुपसञ्जिहीर्षुराह - जत्ताविहाणमेयं, णाऊणं गुरुमुहाउ धीरेहिं । एवं चिय कायव्वं, अविरहियं भत्तिमंतेहिं ॥४४४॥ ९/५०
यात्राविधानमेतत् प्रागुक्तं ज्ञात्वा विज्ञाय गुरुमुखाद् गुरुवचनाद्, धीरैः स्थिरैः(धीमद्भिः अटी.)एवमेव कर्तव्यमविरहितं निरन्तरं भक्तिमद्भिर्भक्तिसम्पन्नैः ॥५०॥
॥ यात्राविधि-पञ्चाशकं नवमं समाप्तम् ॥