SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ गाथा- ४५-४८ ९- यात्राविधान - पञ्चाशकम् १२७ लब्ध्वाऽवाप्य दुर्लभं दुष्प्राप्यं तत्तस्मात् मनुजत्वं मानुषत्वम् । तथा च प्रवचनं जिनानामिदं जैनम् । उत्तमनिदर्शनेषूत्तमज्ञातेषु बहुमानः प्रीतिविशेषः भवति कर्तव्यः ॥४४॥ एसा उत्तमजत्ता, उत्तमसुयवण्णिया सदि बुहेहिं । सेसा य उत्तमा खलु, उत्तमरिद्धीऍ कायव्वा ॥ ४३९॥ ९/४५ एषा पूर्वोक्ता उत्तमयात्रा प्रधानयात्रा उत्तमश्रुतवर्णिता कल्पादिश्रुतवर्णिता । सदा सर्वकालं बुधैर्विद्वद्भिः शेषा चोक्तदिनेभ्योऽन्या उत्तमा खलूत्तमैव उत्तमर्ध्या प्रधानर्ध्या कर्तव्या ॥ ४५ ॥ व्यतिरेकदोषमाह - इयराऽतब्बहुमाणोऽवण्णा य इमीऍ निउणबुद्धीए । एयं विचिंतियव्वं, गुणदोसविहावणं परमं ॥ ४४०॥९/४६ इतरथाऽतद्बहुमानोऽनन्तरस्थानबहुमानो हीनगुणबहुमान इत्यर्थः । अवज्ञा च परिभवश्च अस्यामुत्तमयात्रायां निपुणबुद्ध्या सूक्ष्मधिया । एवं विचिन्तयितव्यमालोचनीयम् । गुणदोषविभावनं वस्तुस्वरूपगुणदोषप्रकाशकम् । परमं प्रधानम् ॥४६॥ एतदेवाह - जेट्ठमि विज्जमाणे, उचिए अणुजेट्ठपूयणमजुत्तं । लोगाहरणं च तहा, पयडे भगवंतवयणम्मि ॥४४१॥ ९/४७ ज्येष्ठे प्रथमे विद्यमाने सम्भवत्यविरोधेन, उचिते योग्ये अनुज्येष्ठस्यानन्तरस्थानीयस्य पूजनमाश्रयणमत्यहितत्वापादनम् अयुक्तं लोकाहरणं च लोकोदाहरणं च । तथा प्रथमस्थानवर्तितयाऽर युक्तम्, प्रकटे प्रकाशे भगवद्वचने प्रथमस्थानवर्त्तिनि सति, निदर्शनरूपेण द्वितीयस्थाने लोकोदाहरणमप्याश्रियते ज्येष्ठाविरोधेन ॥४७॥ किमित्येवमुपदिश्यत इत्याह लोगो गुरुतरगो खलु, एवं सति भगवतो वि इट्ठोत्ति । मिच्छत्तमो य एयं, एसा आसायणा परमा ॥४४२॥ ९/४८ लोको गुरुतरकः खलु गौरवार्हः एवं सत्यनुज्येष्ठपूजने भगवतोऽपि सकाशाद् इष्ट इत्यभिप्रेतः । मिथ्यात्वमेव ['ओकारो निपातः पूरणार्थ: अटी. ] चैतत् सर्वज्ञादपि लोकोत्तमत्वाश्रयणम् एषा आशातना परमा सर्वज्ञावज्ञासम्पादनेन तस्मात्, सर्वत्र प्रथमं सर्वज्ञवचनमेवाङ्गीकर्तव्यम्, तदनु लोकस्तदविरोधि ॥४८॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy