________________
१२६
९-यात्राविधान-पञ्चाशकम्
गाथा-४०-४४
किं पुनर्मार्गानुसारीभावः स्तूयत इत्याह - मग्गाणुसारिणो खलु, तत्ताभिणिवेसओ सुभा चेव । होइ समत्ता चेट्टा, असुभा वि य णिरणुबंध त्ति ॥४३४॥ ९/४०
मार्गानुसारिणः खलु पुरुषस्य विशिष्टक्षयोपशमसम्पन्नस्य, तत्त्वाभिनिवेशतस्तत्त्वाधाराद्धेतोः शुभा चैव निरवद्यैव भवति । समस्ता चेष्टा क्रिया, अशुभापि च सावद्यापि च निरनुबन्धेति निरूपक्रमक्लिष्टकर्मविगमात् तद्भावेनैवानुबन्धक्षपणात् ॥४०॥
प्रस्तुतहेतुमाह - सो कम्मपारतंता, वट्टइ तीए ण भावओ जम्हा । इय 'जत्ताइ य बीयं, एवंभूयस्स भावस्स ॥४३५॥ ९/४१
सो मार्गानुसारी पुमान् कर्मपारतन्त्र्याद्धेतोः वर्तते । तस्यामशुभचेष्टायां द्रव्यतः, न भावतो यस्मात् मार्गानुसारिणो हि न भावतोऽशुभचेष्टावृत्तिः कर्मक्षयोपशमसामर्थ्येन । इति यात्रादि च बीजमवन्ध्यकारणं एवंभूतस्य सकलश्रेयोनिधान[स्य]भावस्य ॥४१॥ १. जत्ता इय. अटी. ।
ता रहणिक्खमणादि वि, एते उ दिणे पडुच्च कायव्वं । जं एसो च्चिय विसओ, पहाण मो तीए किरियाए ॥४३६॥ ९/४२
तत् तस्मात, रथनिष्क्रमणादि [अपि]आदिशब्दाच्चित्रपटपरिग्रहः । एतानि तु प्राक्प्रस्तुतानि दिनानि प्रतीत्य कर्तव्यम् । यद् यस्माद् एष एवोक्तदिनलक्षणो विषयः क्रियागोचरः, प्रधानः सुन्दरः मो इति निपातः तस्याः क्रियाया रथनिर्गमादिकायाः ॥४२॥
किं पुनः पञ्चमहाकल्याणप्रतिबद्धदिवसाश्रयणमुपदिश्यत इत्याह - विसयप्पगरिसभावे, किरियामेत्तं पि बहुफलं होइ । सक्किरिया वि हु णं तहा, इयरम्मि अवीयरागि व्व ॥४३७॥ ९/४३ विषयप्रकर्षभावे विषयातिशयसद्भावे, क्रियामात्रमपि स्वशक्त्यानुसारेण बहुफलं भवत्यधिकफलं सम्पद्यते । सत्क्रियापि विशेषक्रियापि । हुः पुरणे । न तथा इतरस्मिन्नविषये, अवीतराग इवावीतरागवत् ॥४३॥
लभ्रूण दुल्लहं ता, मणुयत्तं तह य पवयणं जइणं । उत्तमणिदंसणेसुं, बहुमाणो होइ कायव्वो ॥४३८॥ ९/४४