SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ गाथा-८-११ १०-उपासकप्रतिमा-पञ्चाशकम् उक्ता दर्शनप्रतिमा, तदनन्तरमिदमाह - एवं वयमादीसु वि, टुव्वमिणं ति नवरमेत्थ वया । घेप्पंतऽणुव्वया खलु, थूलगपाणवहविरयादी ॥४५२॥१०/८ एवं व्रतादिष्वपि व्रतप्रतिमादिष्वपि दृष्टव्यमिदमिति प्रतिमाशब्दार्थप्रयोजनम्, व्रतधरस्य मूर्तिः सामयिकवतो मूर्तिरिति नवरमत्र व्रतानि, गृह्यन्त अणुव्रतानि खलु स्थूलकप्राणवधविरत्यादीनि सर्वाण्येव ॥८॥ तानि च भावतः कदा भवन्तीत्याह - सम्मत्तोवरि ते सेसकम्मणो अवगए पुहुत्तम्मि । पलियाण होंति नियमा, सुहायपरिणामरूवा उ ॥४५३॥ १०/९ सम्यक्त्वस्य सम्यग्दर्शनस्य तल्लाभकालापेक्षयोपर्युपरितनकाले तानि व्रतानि शेषकर्मणस्तदावारकस्य अपगते प्रच्युते जीवप्रदेशेभ्यः कालतो जीववीर्याद्वा। पृथक्त्वेपल्यानां पल्योपमानां समयप्रसिद्धानामद्धापल्योपमानां यैर्नारक-तिर्यग्-मनुष्य-देवायुषि निरूप्यन्ते, तेषां भवन्ति व्रतानि। नियमान्नियमेन शुभात्मपरिणामरूपाणि तु शुभश्चासावात्मपरिणामश्चतद्रूपाणि ॥९॥ पुनस्तानि के तत्सत्तासम्पाद्यफलमाह - बंधादि असक्किरिया, संतेसु इमेसु पहवइ न पायं । अणुकंपधम्मसवणादिया उ पहवति विसेसेण ॥४५४॥ १०/१० बन्धादि, बन्धवधच्छविच्छेदादिः असत्क्रियाऽसच्चेष्टा, सत्सु विद्यमानेषुएषुव्रतेषु परिणामरूपेषु प्रभवति प्रकल्पते न प्रायो बाहुल्येन स्थूलहिंसादिविरत्यात्मकत्वात् तेषाम् अनुकम्पाधर्मश्रवणादिका तु सत्क्रिया तु प्रभवति प्रभविष्णुतामनुभवति विशेषेणातिशयेन ॥१०॥ उक्ता व्रतप्रतिमा, अधुना सामायिकमाह - सावज्जजोगपरिवज्जणादिरूवं तु होइ विण्णेयं । सामाइयमित्तरियं, गिहिणो परमं गुणट्ठाणं ॥४५५॥ १०/११ सावद्ययोगाः सापायमनोवाक्कायव्यापारास्तेषां परिवर्जनम्, आदिशब्दान्निरवद्ययोगासेवनमेवंरूपं तु सावधयोगपरिवर्जनादिरूपं तु पुनर्भवति विज्ञेयम् । सामायिकं समभावरूपमित्वरः स्वल्पकालः सोऽस्यास्तीति इत्वरिकं प्रतिनियतकालानुष्ठेयमित्यर्थः । गृहिणो गृहस्थस्य परमं प्रधानं गुणस्थानं गुणभाजनम् ॥११॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy