________________
गाथा-२६-३०
९-यात्राविधान-पञ्चाशकम् बहुमानमेवाह - ते धण्णा सप्पुरिसा, जे एयं एवमेव णिस्सेसं । पुट्वि करिंसु किच्चं, जिणजत्ताए विहाणेणं ॥४२०॥ ९/२६
ते पूर्वपुरुषा धन्या सत्पुरुषा वर्तन्ते ये एतदेवमेवोक्तवद् निःशेषं सकलं पूर्वं प्राक् अकार्षुः कृतवन्तः कृत्यं कर्तव्यम् । जिनयात्राया उक्तस्वरूपाया विधानेन कारणेन ॥२६॥
अम्हे उ तह अधण्णा, धण्णा उण एत्तिएण जं तेसिं । बहु मण्णामो चरियं, सुहावहं धम्मपुरिसाणं ॥४२१॥ ९/२७
वयं[तु]पुनस्तथा तद्वद् अधन्या, नास्माकं तथा धन्यतास्तीति भावः । धन्याः पुनरेतावता इयन्मात्रेण यत्तेषां बहुमन्यामहेचरितं विहितं सुखावहं शुभावहं वा धर्मपुरूषाणां धीरपुरुषाणाम् ॥२७॥ (१. वीरपुरिसाणं अटी.)
इय बहुमाणा तेसिं, गुणाणमणुमोयणा णिओगेणं । - तत्तो तत्तुल्लं चिय, होइ फलं आसयविसेसा ॥४२२॥ ९/२८
इति बहुमानादेव स्वरूपप्रीतिविशेषात् तेषा पूर्वपुरुषाणां सम्बन्धिनां गुणानामनुमोदनानुमतिः, नियोगेनावश्यंतया ततो विकलाऽनुष्ठानादनुमोदनातो वा [तत्] तुल्यमेव भवति । फलमाशयविशेषात्परिणामविशेषात् कृतकारितानुमतिभेदभिन्ने हि पुण्यपापे वनछेतृ-बलदेवमृगोदाहरणेन, भावतस्तु तदविकलानुष्ठानमेव स्वसत्क्रियाप्रवृत्तेः, तथाविधपुण्याभावस्तु तत्कार्यप्रतिबन्धकः, न पुरुषापराधः कश्चित्, प्रदात्रा यत्नेन परिहर्तव्य इति तत्तुल्यमेव फलम्॥२८॥
उपसञ्जिहीर्षुराहकयमेत्थ पसंगेणं, तवोवहाणादिया वि नियसमए । अणुरूवं कायव्वा, जिणाण कल्लाणदियहेसु ॥४२३॥ ९/२९
कृतमत्र प्रसङ्गेनालमत्र प्रसक्त्या आहाराभयदानादिविषयया तप उपधानादिकाऽपि तपःकर्मादयोऽपि निजसमये स्वीयकाले अनुरूपमौचित्येन कर्तव्या करणीया जिनानां भगवतां चतुर्विंशतेः कल्याणदिवसेषु पञ्चमहाकल्याणप्रतिबद्धेषु ॥२९॥
एतद्विभावनायाह - पंच महाकल्लाणा, सव्वेसिं जिणाण होति णियमेण । भुवणच्छेरयभूया, कल्लाणफला य जीवाणं ॥४२४॥ ९/३०