________________
१२२
९-यात्राविधान-पञ्चाशकम्
गाथा-२२-२५ तस्मिन् प्रावचनिके असत्यसन्निहिते राजा नृपतिः द्रष्टव्यः श्रावकैरपि क्रमेण नीत्या कारयितव्यश्च तथा दानेनापि तदाह्लादकेन अमाघात इति अवधः ॥२१॥
परोपतापपरिहारार्थमाह - तेसि पि घायगाणं, दायव्वं सामपुव्वगं दाणं । तत्तियदिणाण उचियं, कायव्वा देसणा य सुहा ॥४१६॥ ९/२२
तेषामपि घातकानां प्राणिवधजीविनां दातव्यं देयम् । सामपूर्वकं प्रीतिपूर्वकं दानमन्नपानादेस्तावद्दिनानामुचितं यात्रादिनयोग्यम् । कर्तव्या देशना च शुभा भवतामप्येवं धर्मावाप्तिर्भविष्यतीति ॥२२॥
एवं क्रियमाणे को गुण इत्याह - तित्थस्स वण्णवाओ, एवं लोगम्मि बोहिलाभो य । केसिंचि होइ परमो, अण्णेसि बीयलाभो त्ति ॥४१७॥ ९/२३
तीर्थस्य शासनस्य वर्णवादो गुणवादः । एवमुक्तनीत्या लोके सर्वजने बोधिलाभश्च सम्यक्त्वलाभश्च केषाञ्चिल्लघुकर्मणां भवतीति परमः प्रधानः । अन्येषां बीजलाभ इति पुण्यानुबन्धिपुण्यसम्पत्तिः ।२३॥ किमिति वर्णवाद एवेष्यते इत्याह - जा चिय गुणपडिवत्ती, सव्वण्णुमयम्मि होइ परिसुद्धा । स च्चिय जायति बीयं, बोहीए तेणणाएणं ॥४१८॥ ९/२४
यैव च गुणप्रतिपत्तिर्गुणाभ्युपगतिः सर्वज्ञमते सर्वज्ञशासने भवति परिशुद्धा भावगर्भा प्रशंसादिरूपा सैव च जायते बीजं कारणं बोधेर्बोधिलाभस्य स्तेनज्ञातेन चौरोदाहरणेन । तच्च प्रागुक्तम् (७-८ गाथायाम्) ॥२४॥
व्यतिरेकमाह -
इय सामत्थाभावे, दोहि वि वग्गेहिं पुव्वपुरिसाणं । इय सामत्थजुयाणं, बहुमाणो होति कायव्वो ॥४१९॥ ९/२५
इति सामर्थ्याभाव एवंविधशक्त्यभावे द्वाभ्यामपि वर्गाभ्यां साधुश्रावकसमूहाभ्यां पूर्वपुरूषाणां स्ववर्गान्तःपातिनां प्राक्तनकालभाविनां स्वकीयवर्तमानकालापेक्षया । इति सामर्थ्ययुतानामेवंविधसामोपेतानां बहुमानस्तेषु प्रीतिविशेषः भवति कर्तव्यः ॥२५॥