SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ११८ ___९-यात्राविधान-पञ्चाशकम् गाथा-५-८ तस्या जिनयात्राया विधानं तु विधिश्च दानादि वर्तते ॥४॥ (१. उ. अटी.) एतदेव सप्रपञ्चं व्याचष्टे - दाणं तवोवहाणं', सरीरसक्कार मो जहासत्ति । उचितं च गीतवाइय, थुतिथोत्ता पेच्छणादी य ॥३९९॥ ९/५ दारगाहा। दानं वितरणं तपउपधानं तपःकर्म शरीरसत्कारश्च शरीरविभूषा च । मो इति निपातो। यथाशक्ति न तद्धान्याधिक्याभ्याम्, सर्वं दानादि कर्तव्यमिति शेषः । उचितं च योग्यं च गीतवादित्रमिति प्राकृतत्वाद् लुप्विभक्तिकम् । स्तुतिस्तोत्राणि प्रसिद्धानि प्रेक्षणादि प्रसिद्धम् ॥५॥ पूर्वोक्तमेव वस्तु विवरीतुमाह - दाणं अणुकंपाए, दीणाणाहाण सत्तिओ णेयं । तित्थंकरणातेणं, साहूण य पत्तबुद्धीए ॥४००॥ ९/६ दानमनुकम्पया दया दीनाऽनाथानां दीनाः क्षीणविभवाः, समानेऽपि दीनत्वे शक्तिसामर्थ्यरहिता अनाथाः तेषां । शक्तितः स्वशक्त्यनुसारेण ज्ञेयं ज्ञातव्यम् । तीर्थकरज्ञातेन यथा भगवान् समस्तदैत्यामराचितो गृहवासराज्यमुत्सृजन् सर्वेषामनुकम्पादाने प्रवर्तते संवत्सरं यावत् । तदुदाहरणेन साधूनां च यात्रासमागतानां पात्रबुद्ध्या पात्रधिया दानमिति वर्तते ॥६॥ उक्तं दानम्, तपउपधानमाह - एकासणाइ नियमा, तवोवहाणं पि एत्थ कायव्वं । तत्तो भावविसुद्धी, नियमा विहिसेवणा चेव ॥४०१॥ ९/७ एकाशनादिकभक्तादि । नियमान्नियमेन, तपउपधानमपि तपःकर्मापि अत्र यात्रायां कर्तव्यम्। ततः तपसः, भावविशुद्धिः, अध्यवसायविशुद्धिराहारलाघवा-ऽप्रमादाभ्याम्, नियमाद्विधिसेवना चैव कर्तव्योपदेशसेवा चैव जायते ॥७॥ उक्तं तपउपधानमधुना शरीरसत्कारमाह - वत्थविलेवणमल्लादिएहि विविहो सरीरसक्कारो । कायव्वो जहसत्ति, पवरो देविंदणाएणं ॥४०२॥ ९/८ वस्त्र-विलेपन-माल्यादिकैलॊकसिद्धैः विविधो अनेकप्रकारः, शरीरसत्कारः शरीरविभूषारूपः कर्तव्यो विधेयः, यथाशक्ति न शक्त्यतिक्रमेण । प्रवरः सर्वोत्तमः, देवेन्द्रज्ञान
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy