________________
॥ नवमं यात्राविधान-पञ्चाशकम् ॥
प्रतिष्ठानन्तरं यात्राविधानमाह - नमिऊण वद्धमाणं, सम्मं संखेवओ पवक्खामि । जिणजत्ताएँ विहाणं, सिद्धिफलं सुत्तनीतीए ॥३९५॥ ९/१
नत्वा प्रणम्य वर्धमानं प्रवर्धमानकल्याणत्वात्तथाकृतनामानम्, सम्यङ्मनोवाक्कायैः सक्षेपतः प्रवक्ष्यामि वचनविस्तरमुत्सृज्य, जिनयात्रा[याः]विधानं विधि सिद्धिफलं मुक्तिफलं सूत्रनीत्यागमनीत्या ॥१॥
किं पुनः यात्राविधानमुच्यत इत्याह - दंसणमिह मोक्खंगं, परमं एयस्स अट्टहाऽऽयारो । निस्संकादी भणितो, पभावणंतो जिणिदेहिं ॥३९६॥ ९/२
दर्शनमिह सम्यक्त्वमिह मोक्षाङ्गं मोक्षकारणं परमं प्रधानमेतस्य दर्शनस्य अष्टधाऽष्टभेदः आचारो निःशङ्कादिःभणितः प्रभावनान्तः प्रभावनापर्यन्तो जिनेन्द्रैः सर्वज्ञैः यथोक्तम् -
निस्संकिय निक्कंखिय निध्वितिगिच्छाऽमूढदिट्टी य । उखवूह थिरीकरणे वच्छल पभावणेढ ॥[ दशवकालिक नि.गा.१८२] ॥२॥ पवरा पभावणा इह, असेसभावंमि तीऍ सब्भावा । जिणजत्ता य तयंगं, जं पवरं ता पयासोऽयं ॥३९७॥ ९/३
प्रवरा प्रधाना प्रभावनेह दर्शनाचारे अशेषभावे निःशङ्कितादिगुणसद्भावे, तस्याः प्रभावनायाः सद्भावात् सम्भवाद्धेतोः जिनयात्रा च तदङ्गं प्रभावनाकारणं यद् यस्मात् प्रवरमुत्तमं तत् तस्मात् प्रयासः प्रयत्नो अय वक्ष्यमाणः ॥३॥
जत्ता महूसवो खलु, उद्दिस्स जिणे 'स कीरई जो उ । सो जिणजत्ता भण्णइ, तीऍ विहाणं तु दाणादी ॥३९८॥ ९/४
यात्रा का? महोत्सव उच्यते । खलुशब्दो वाक्यालङ्कारे । उद्दिश्याङ्गीकृत्य जिनास्तीर्थकरान् सक्रियत विधीयते यस्तु यः पुनः, स महोत्सवस्तदुद्देशे प्रवृत्तः, जिनयात्रा भण्यत अभिधीयत ।