SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ११६ ८- बिम्बप्रतिष्ठाविधि-पञ्चाशकम् यत् - महान्त्यपि रत्नानि, पङ्कमग्नानि शेरते । नावज्ञा नापरिज्ञानम्, जलधेर्महिमैव सा ॥ गाथा -४९-५० प्रयोगदर्शनात्, सम्यगनुबन्धसाधिका अविपरीतस्वरूपसातत्यनिवर्तिका केचित् कर्तव्येति मन्यन्ते । अन्ये तु सूरयस्त्रीन् दिवसान्नियोगत एव कर्तव्या महिमेति वर्तते ॥४८॥ तत्तो विसेसपूयापुव्वं विहिणा पडिस्सरोमुयणं । भूयबलिदीणदाणं, एत्थं पि ससत्तिओ किंचि ॥३९३॥ ८/४९ ततस्तदन्तरं विशेषपूजापूर्वं प्राक्तनदिनापेक्षया विधिना शास्त्रोक्तसम्प्रदायागतमन्त्रपूर्वक [ केण] - पूर्वरूपेण परिसरोन्मोचनं कङ्कणोन्मोचनं विधेयम् । भूतेभ्यो बलिः सिद्धान्नप्रक्षेपरूपः[प्रेतोपहार:-अटी. ] पत्रपुष्पफलाक्षताढ्यः सुरभिगन्धोन्मिश्रः, दीनेभ्यो दानमनुकम्पया, भूतबलिषु दीनदानं च भूतबलिदीनदानमत्रापि कङ्कणोन्मोचने स्वशक्तितो विभवानुरूपं किंचि किंचित्कर्तव्यम् ॥४९॥ तत्तो पइदिणपूयाविहाणओ तह तह कायव्वं । विहिताणुट्ठाणं खलु भवविरहफलं जहा होति ॥ ३९४॥ ८/५० ततः कङ्कणोन्मोचनान्तरं प्रतिदिनपूजाविधानतः प्रतिदिवसपूजासम्पादनेन । तथा तथा विचित्ररूपतया इह प्रतिष्ठायां कर्तव्यम् । विहितानुष्ठानं खल, विहितानुष्ठानमेव, नासावद्यपूर्वं सम्भवति, उक्ताऽत्र उपहाररूपम्, शिष्टसमाचरि [त] त्वाद् भवविरहफलं निःश्रेयसफलं यथा भवति यथा सम्पद्यते ॥५०॥ प्रतिष्ठाविधिः पञ्चाशकं अष्टमं समाप्तम् ॥८॥ 02
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy