________________
गाथा-४४-४८ ८-बिम्बप्रतिष्ठाविधि-पञ्चाशकम् ___ ११५
एसा उ महादाणं, एस च्चिय होति भावजण्णो त्ति । एसा गिहत्थसारो, एस च्चिय संपयामूलं ॥३८८॥ ८/४४ एती' फलं णेयं, परमं निव्वाणमेव नियमेण । सुरणरसुहाइं अणुसंगियाइं इह किसिपलालं व ॥३८९॥ ८/४५ तिगं ।
आसन्नसिद्धिकानां प्रत्यासन्नमुक्तीनां लिङ्गं चिह्नम् इदं जिनवरैः प्रज्ञप्तं कथितम् । सङ्के चैव पूजा सामान्येन तदध्यवसायात् गुणनिधौ सकलगुणनिधाने ॥४३॥
एषा तु सङ्घपूजा महादानं तदपरदानापेक्षया। एषैव च भवति भावयज्ञ इति भावपूजेत्यर्थः। एषा गृहस्थसारो गृहस्थधर्मसार इत्यर्थः । एषैव च सम्पन्मूलं सर्वसम्पद्धेतुरित्यर्थः ॥४४॥
एतस्याः सङ्घपूजायाः, फलं विज्ञेयं परमं प्रधानं निर्वाणमेव सिद्धिपदमेव, नियमन नियमाद् । न च सुरनरसुखान्यानुषङ्गिकाण्यनुषङ्गरूपाण्यप्रधानानीत्यर्थः । इह फलप्रस्तावे कृषिपलालवत् । यथा कृषौ पलालमप्रधानम्, धान्यावाप्तिः प्रधाना, तन्निमित्तं लोकप्रवृत्तेश्च, एवमिहापि ॥४५।। (सङ्घपूजाप्रकरणमुपसंहरन्नाह - अटी.)
कयमेत्थ पसंगेणं, उत्तरकालोचियं इहऽण्णं पि । अणुरूवं कायव्वं, तित्थुण्णतिकारगं नियमा ॥३९०॥ ८/४६
कृतमत्र प्रसङ्गेनालमत्र विस्तरेण उत्तरकालोचितमिहान्यदप्यनुरूपं योग्यं कर्तव्य तीर्थोन्नतिकारकमनुकम्पादानम्, नियमान्नियोगेन ॥४६॥
उचिओ जणोवयारो विसेसओ णवर सयणवग्गम्मि । साहम्मियवग्गम्मि य 'एयं खलु परमवच्छलं ॥३९१॥ ८/४७
उचितो योग्यो जनोपचारः, सामान्येन, लोकपूजा विशेषतो विशेषेण नवरं स्वजनवर्गे प्रत्यासन्नतरत्वात् । साधर्मिकवर्गेऽपि च स्वजनादन्यस्मिन् एतत् खलु परमवात्सल्यं साधर्मिकवर्गोपचार एव प्रधानवात्सल्यम् ॥४७॥ (१. एवं अटी.)
अट्ठाहिया य महिमा, सम्म अणुबंधसाहिगा केई । अण्णे उ तिण्णि दियहे, निओगओ चेव कायव्वा ॥३९२॥ ८/४८ अष्टाह्निका च महिमा पूजा महिमाशब्दः स्त्रीलिङ्गोऽप्यस्ति ।