________________
८-बिम्बप्रतिष्यविधि-पञ्चाशकम्
गाथा-३९-४३ अमुमेवार्थं समर्थयन्नाह - गुणसमुदाओ संघो, पवयण तित्थं ति होंति एगट्ठा । तित्थगरोऽवि य एयं, णमए गुरुभावतो चेव ॥३८३॥ ८/३९
गुणानां सम्यग्दर्शनादीनां समुदायो मेलकः सङ्घ, प्रवचनम्, तीर्थमिति भवन्त्येकार्थाः शब्दाः तीर्थकरोऽपि चैनं सङ्कं नमति नमस्करोति गुरुभावत एव (चैव) गुणगौरवादेव गुर्वाध्यवसायादेव ॥३९॥
श्रुतोक्तमेवाह - तप्पुब्विया अरहया, पूजितपूया य विणयकम्मं च । कयकिच्चो वि जह कहं, कहेति नमते तहा तित्थं ॥३८४॥८/४० तत्पूर्विका श्रुतज्ञानपूर्विका तदाधारसङ्घपूर्विका वा अर्हताम् अर्हता पूजितपूजा च लोके भगवद्भिः पूजितस्य पूजा प्रवर्तते । विनयकर्म च कृतं भवति। 'विनयमूलमयो धर्मः प्रवर्तयितव्य' इत्यभिप्रायात् स्वयं विनयं प्रयुङ्क्ते । कृतकृत्योऽपि कृतार्थोऽपि नयाभिप्रायाद् यथा कथां कथयति देशनां करोति तथा नमति तीर्थ श्रुतज्ञानं सङ्घ वा ॥४०॥
एयम्मि पूजियम्मी, नत्थि तयं जं न पूजियं होइ । भुअणे वि पूयणिज्जं, न गुणट्ठाणं ततो अण्णं ॥३८५॥ ८/४१
एतस्मिन् सङ्घ पूजिते सति नास्ति तकद् यन्न पूजितं भवति । सर्वमेव पूजितमिति भावः। भुवनेऽपि लोकेऽपि पूजनीयं पूज्यतमं न गुणस्थानं यद् अतो सङ्घादन्यद् अपरमेतदेव पूज्यतमम् ॥४१॥
तप्पूयापरिणामो, हंदि महाविसयमो मुणेयव्यो । तद्देसपूयणम्मि वि, देवयपूयादिणाएण ॥३८६॥ ८/४२
तत्पूजापरिणामः सङ्घपूजापरिणामो हन्तेत्यामन्त्रणे । महाविषयो अनल्पविषयो ['मो' मकारः प्राकृतत्वात् - अटी.] मन्तव्यो विज्ञेयः तद्देशपूजनेऽपि विवक्षितक्षेत्रवर्तिसबैकदेशपूजनेऽपि देवतापूजादिज्ञातेन देवतापूजास्नानविलेपनाद्युदाहरणेन । यथा पादाद्येकदेशपूजनेन सकलदेवतापूजा, एवं सङ्घकदेशपूजनेनापि सर्वसङ्घपूजा ॥४२॥
आसन्नसिद्धियाणं, लिंगमिणं जिणवरेहिं पण्णत्तं । संघमि चेव पूया, सामण्णेणं गुणनिहिम्मि ॥३८७॥ ८/४३