________________
८- बिम्बप्रतिष्ठाविधि-पञ्चाशकम् जम्बूदीवपट्ठा, जहसेसदीवमज्झयारंमि । आचंद्रसूरियं तह, होउ इमा सुप्पट्ट त्ति ॥२॥
गाथा - ३६-३८
जह लवणस्स पट्ठा, सव्वसमुद्दाण मज्झयारंमि । आचंद्रसूरियं तह, होउ इमा सुप्पट्ट त्ति ॥३॥ इत्यादि । [ ]
एते मङ्गलशब्दा मङ्गलध्वनयः तस्मिन् प्रतिष्ठाकाले शुभनिबन्धना शुभहेतवः दृष्टाः समयज्ञैः
॥३५॥
सोउं मंगलसद्दं, सउणंमि जहा उ इट्ठसिद्धि त्ति ।
एत्थं पितहा संमं, विण्णेया बुद्धिमंतेहिं ॥ ३८०॥ ८/३६
११३
श्रुत्वा मङ्गलशब्दं प्रशस्तम्, शकुने शकुनविषये यथा तु यथैव इष्टसिद्धिरिति लोकविदितमेतद्, अत्रापि प्रतिष्ठायां तथापि तेनैव प्रकारेण, सम्यग् विज्ञेया, इष्टसिद्धिः बुद्धिमद्भिः प्रज्ञावद्भिः॥३६॥
अण्णे उ पुण्णकलसादिठावणे उदहिमंगलादीणि ।
जंपंतऽणे सव्वत्थ भावतो जिणवरा चेव ॥ ३८१ ॥ ८/३७
अन्ये तु सूरयः पूर्णकलशादिस्थापने पूर्णकलशप्रदीपादिस्थापने उदधिमङ्गलादीनि चतुःसमुद्राग्नित्रय - प्रभृतीनि जल्पन्ति वदन्ति, नामग्राहं प्रतिपादयन्ति अन्ये सूरय एवं सर्वस्मिन्नेव भावतः परिणामेन जिनवरा एव मङ्गलं तेन तन्नामैव ग्रहीतव्यमिति भावः ||३७|
प्रतिष्ठानन्तरं विधिमाह -
सत्तीऍ संघपूजा, विसेसपूजाउ बहुगुणा एसा ।
जं एस सुए भणिओ, तित्थयराणंतरो संघो ॥ ३८२॥ ८/३८
शक्त्या यथाशक्ति सङ्घपूजा चतुर्विधसङ्घपूजा विधेयेतिशेषः, विशेषपूजा एकदिग्गताया सकाशाद् बहुगुणैषा सङ्घपूजा, यद् यस्माद् एष श्रुते भणितः श्रुत उक्तः तीर्थकरानन्तरं सङ्घः पूज्यतामङ्गीकृत्य तीर्थकरस्थानान्तरं द्वितीयस्थानवर्ती तत्प्रवर्त्तितगणधरादिसमुदायः । अथवानन्तरं विशेषो न विद्यते अन्तरमस्येति तीर्थकरानन्तरः तन्निर्विशेषस्तत्तुल्य इति यावत् । विशिष्टागमाभिप्रायेण प्रभु-समुहयोरभेदादनादिनिधनमहासमुदायत्वमङ्गीकृत्य तीर्थकरोऽनन्तरोऽस्येति तीर्थकरानन्तरस्तस्यापि पूज्यतम इत्यर्थः ॥३८॥