SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ११२ ८-बिम्बप्रतिष्ठाविधि-पञ्चाशकम् गाथा-३३-३५ तत्स्वरूपान्यथात्वापत्तेस्तया कार्याविसंवादात्तस्माद् यथा फलवांस्तथा करणीयः । शासनसुरायाः श्रुतदेवतायाः शासनाधिष्ठातृदेव्या इति यावत् । न ह्यनधिष्ठितो मौनीन्द्र आगम इति कृत्वा, उक्तं च परममुनिभिः - सलक्खणमिणं सुत्तं, जेण सव्वण्णुभासियं। सव्वं च लक्खणोवेयं समहिलृति देवया ॥[ ] स्तवः सत् स्तवपाठो विधेयः, स्मरणं चैत्य-गुर्वादीनां स्वाऽनुग्रहकारिणां प्रतिष्ठापयितुरधिकारिणः सूरेः पूजा विधेयाः स्मर्तव्यानां देवस्य वा, काले देशकाले अभिमतेष्टांशरूपे स्थापना प्रतिष्ठा मङ्गलपूर्वा त पञ्चनमस्कारपूर्वैव शेषमङ्गलपूर्वा वा ॥३२॥ पूया वंदणमुस्सग्ग पारणा भावज्जकरणं च । सिद्धाचलदीवसमुद्दमंगलाणं च पाढो उ॥३७७॥ ८/३३ पूजा स्थापितबिम्बस्य, वन्दनं चैत्यवन्दनम्, उत्सर्गः कायोत्सर्गो निरुपसर्गनिमित्तं [प्रतिष्ठादेवताया इत्यन्ये अटी.] परिणामः पारणा परिसमाप्तिः कायोत्सर्गस्यैव, भावस्थैर्यकरणं च चित्तस्थिरतासम्पादनं च विधेयम्। सिद्धाचलद्वीपसमुद्रमङ्गलानांच सिद्धिक्षेत्राधिरूढकुलपर्वतजम्बूद्वीपादिलवणमहोदधिप्रभृतीनां पाठः स्तुतिपाठः पुनर्विधेयः ॥३३॥ तमेव दर्शयितुमाह - जह सिद्धाण पतिट्ठा, तिलोगचूडामणिम्मि सिद्धिपदे । आचंदसूरियं तह, होउ इमा सुष्पतिट्ठ त्ति ॥३७८॥ ८/३४ यथा सिद्धानां परमात्मनां प्रतिष्ठाऽवस्थानं त्रिलोकचूडामणौ लोकमस्तकस्थे सिद्धिपदे 'सिद्धिक्षेत्रे आचन्द्रसूर्यः आचन्द्रसूर्यावभिवाप्य तत्कालावस्थानं यावत् तथा भवत्वियं प्रतिमा सुप्रतिष्ठेति शोभनप्रतिष्ठा ॥३४॥ (१. सिद्धि प्राप्तुं योग्यस्थलम् - सिद्धिक्षेत्रम्-तस्मिन् ।) एवं अचलादीसु वि, मेरुप्पमुहेसु होति वत्तव्वं । एते मंगलसद्दा, तम्मि सुहनिबंधणा दिट्ठा ॥३७९॥ ८/३५ एवमचलादिष्वपि कुलशैलशाश्वतक्षेत्रसरित्प्रभृतिष्वपि । मेरुप्रमुखेषु मेरुप्रभृतिषु भवति वक्तव्य तद्व्यपदेशेन । जह मेरुस्स पइट्ठा, जम्बूदीवस्स मज्झयारम्मि। आचंदसूरियं तह, होउ इमा सुप्पट्टत्ति ॥१॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy