________________
११०
८- बिम्बप्रतिष्ठाविधि- पञ्चाशकम्
गाथा - २४-२७
स्वस्तिक: प्रसिद्ध एव चतुरस्रादिरूपः । यवका (वा) रक - वर्णक - स्वस्तिकादि सर्वं महारम्यं महारमणीयमेतत्कर्तव्यम् ॥२३॥ (१. सुभेक्खुरुक्खा अटी. I)
मंगलपडिसरणाई, चित्ताई रिद्धिविद्धिजुत्ताई ।
पढमदियहंमि चंदणविलेवणं चेव गंधडुं ॥ ३६८ ॥ ८ / २४
मङ्गल [ प्रतिसरणानि ] स्तुतिपरकाणि मङ्गलात्मककङ्कणानि विचित्राणि नानाविधानि ऋद्धिवृद्ध्यौषध्यौ, शास्त्रप्रसिद्धे तद्युक्तानि । प्रथमदिवस आद्यदिने चन्दनं विलेपनं चैव गन्धाढ्यं कर्पूरकस्तूर्यादिपरिमलपरिपूर्णम् ॥२४॥
चउनारीओमिणणं, नियमा अहिगासु नत्थि उ विरोहो । नेवत्थं च इमासिं, जं पवरं तं इहं सेयं ॥ ३६९॥ ८/२५
चतसृभिर्नारीभिः प्रशस्ताभि: । 'ओमिणणं' ओवेणकं लोकशास्त्रप्रसिद्धं [ = अवमानं प्रोंखनकं - (अटी) पोंखणा ] नियमान्नियमेन अधिकासु नास्ति तु नास्त्येव विरोध: शास्त्रव्याघातः । नेपथ्यं च वस्त्राभरणरूपम् आसां नारीणां यत्प्रवरं प्रधानं तन्नेपथ्यमिह प्रतिष्ठाप्रस्तावे श्रेयोऽतिशयप्रशस्यं प्रवरादन्यन्नेष्यते इति भावः ॥ २५ ॥
कथं पुनर्भोगाभिष्वङ्गान्न दोष इत्याशङ्क्याह -
जं एयवइगरेणं, सरीरसक्कारसंगयं चारु ।
कीरइ तयं असेसं, पुण्णनिमित्तं मुणेयव्वं ॥ ३७० ॥ ८/२६
यत् नेपथ्यादि एतद्व्यतिकरेण देवप्रतिष्ठासम्बन्धेन शरीरसत्कारसङ्गतं शरीरविभूषासहचरितवृत्ति चारु शोभनं क्रियते निर्वर्त्यते तकं ते पथ्यादि अशेषमखिलम् । पुण्यनिमित्तं पुण्यहेतुः मुणितव्यं मन्तव्यम् । न तत्प्रस्तावोपनतभोगादपि बन्धभावो देवपूजानिमित्तत्वात्तस्य, अन्यथात्वेभक्तेराशातना । तस्मात्पुण्यहेतुरेव तदिति ॥२६॥
कुत: पुण्यनिमित्तमित्याह -
तित्थगरे बहुमाणा, आणाआराहणा कुसलजोगा । अणुबंधसुद्धिभावा, रागादीणं अभावा य ॥ ३७१॥ ८/२७
तीर्थकरे भगवति बहुमानाद्धेतोः आज्ञाराधनादागमाराधनात्, कुशलयोगात् कुशलव्यापारात्, शास्त्रोक्तत्वेन । अनुबन्धशुद्धिभावात्सन्तानकर्मक्षयभावाद् रागादिनामभावाच्च । न हि रागादिकलुषितचेता इत्थं प्रवर्त्तते । तत्प्रवृत्तेरशास्त्रपूर्वकत्वाद्, यथाकथञ्चित्परोपघातेनापि