________________
गाथा - २० - २३
८- बिम्बप्रतिष्ठाविधि-पञ्चाशकम्
इतश्च पूजाद्यविरुद्धमित्याह -
-
साहम्मिया य एते, महड्डिया सम्मदिट्ठिणो जेण ।
तो च्चिय उचियं खलु, एतेसिं एत्थ पूजादी ॥ ३६४॥ ८/२०
साधर्मिकाश्च समान धार्मिकाश्च एते देवेन्द्रलोकपालादयो देवाः महद्धिका महती ऋद्धिविभूतिर्येषां ते तथा सम्यग्दृष्टयो येन समीचीनदृष्टिर्दर्शनं येषां ते तथा । अत एव साधर्मिकादित्वादेव, उचितं खलु योग्यमेव । एतेषां प्रस्तुतानाम् अत्र प्रतिष्ठाविधाने पूजादि पूजासत्कारबहुमानादि ॥ २० ॥
तत्तो सुहजोएणं, सद्वाणे मंगलेहिँ ठवणा उ ।
अभिवासणमुचिएणं, गंधोद्गमादिणा एत्थ ॥ ३६५॥ ८/२१
१०९
ततस्तदन्तरं शुभयोगेन पूर्वोक्तेनेष्टकालविशेषेण स्वस्थानेऽभिवासनयोग्ये मङ्गलैः प्रशस्तरूपैः स्थापना तु न्यासः अभिवासनमधिवासनं वा । उचितेन गन्धोदकादिना, आदिशब्दाच्छुभपुष्पोदकपरिग्रहः अत्र प्रतिष्ठायाम् ॥२१॥
चत्तारि पुण्णकलसा, पहाणमुद्दाविचित्तकुसुमजुया । सुहपुण्णचत्तचउतंतुगोच्छ्या होंति पासेसु ॥ ३६६ ॥ ८ / २२
चत्वारः पूर्णकलशाः अखण्डकलशाः, प्रधानमुद्रया रूप्य - सुवर्ण - रत्नरूपया, विचित्रकुसुमैश्च नानाविधपुष्पैश्च युताः संयुक्ता: प्रधानमुद्राविचित्रकुसुमयुताः शुभपूर्णचत्रचतुस्तन्तुका - वस्तृताः । चत्रं तर्क, पुण्यं [ पूर्ण-अटी.] शुभकर्मप्रवृत्तं पुण्य (पूर्ण) चत्रात् समुत्पन्नं चतुस्तन्तुकम् । समाहारद्वन्द्वादेकत्वं कन् प्रत्ययश्च शुभं निरवद्यं [पूर्ण चत्रचतुस्तन्तुक, तेन] पूर्णचत्रचतुस्तन्तुकेनावस्तृता आच्छादिता, ग्रीवाप्रदेशेषु कृतकण्ठे गुणाः चतुर्षु पार्श्वेषु चतुसृषु दिक्षु पुरस्तात् प्रतिष्ठाप्यप्रतिमायाः ॥२२॥
मंगलदीवा य तहा, घयगुलपुण्णा 'सुभिक्खुभक्खा य । जववारयवण्णयसत्थिगादि सव्वं महारंमं ॥ ३६७॥ ८/२३
मङ्गलदीपाश्च तथा घृत-गुडपूर्णास्तत्समन्विताः । खरविस (श) दमभ्यवहार्यं भक्ष इत्यभिधीयते, भोज्यं तु सामान्येन द्रवादिस्वरूपमपि, शोभने भक्ष - भोज्ये येषु मङ्गलदीपेषु ते तथा । पाठान्तरं वा शुभेक्षुवृक्षाश्च इक्षुवृक्षा इक्षुयष्टयः शुभाश्च ते इक्षुवृक्षाश्च । यवका[वा]रकाः शरावादिरोपितयवाङ्कुराः। तेषां बीजावसानत्वात् । वर्णकञ्श्चन्दनं श्रीखण्डमन्यद् वा सुन्दरम् ।