SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १०८ ८-बिम्बप्रतिष्ठाविधि-पञ्चाशकम् गाथा-१६-१९ ___ एवं बिम्बकारणगतं विधिमभिधाय प्रस्तुतप्रतिष्ठाविधिमाह - निप्फण्णस्स य सम्म, तस्स पइट्ठावणे विही एस । सुहजोएण पवेसो, आयतणे ठाणठवणा य ॥३६०॥ ८/१६ निष्पन्नस्य च संसिद्धस्य च सम्यक् न्यायेन तस्य बिम्बस्य प्रतिष्ठापने स्थापनायां विधिरेष वर्तते । शुभयोगेन साधकचन्द्रनक्षत्रादिसम्बन्धेन प्रशस्तमनोवाक्कायव्यापारेण वा प्रवेशः प्रवेशनं बिम्बस्येति गम्यते आयतने भवने स्थानस्थापना च उचितन्यासश्च ॥१६॥ तेणेव खेत्तसुद्धी, हत्थसयादिविसया निओगेण । कायव्वो सक्कारो, य गंधपुप्फादिएहि तहिं ॥३६१॥ ८/१७ तेनैव शुभयोगेन क्षेत्रशुद्धिः समन्तात् क्षेत्रविशुद्धिरस्थि-मांसाद्यशुभद्रव्यापहारेण हस्तशतादिविषया, आदिशब्दादधिकतरपरिग्रहः । नियोगेनावश्यंतया कर्तव्यः सत्कारश्च सत्क्रिया पूजेति यावत्, गन्धपुष्पादिकैः सुरभिगन्धद्रव्यपुष्पवस्त्रादिभिः, तत्र क्षेत्रे तस्मिन् वा प्रतिष्ठाकाले ॥१७॥ दिसिदेवयाण पूया, सव्वेसिं तह य लोगपालाणं । ओसरणकमेणऽण्णे, सव्वेसिं चेव देवाणं ॥३६२॥ ८/१८ दिग्देवतानामिन्द्रादीनां पूजा सर्वेषां तथा च लोकपालानां सोम-यम-वरुण-कुबेराणां शक्रसम्बन्धिनां पूर्वादिदिग्व्यवस्थितानाम् । तथाहि पूर्वस्यां दिशि सोमो धनुःपाणिः कमण्डलुहस्तश्च शान्तिकर्मविधायि शक्रादिदेशादा(शेना)गमे श्रूयते, यमो दक्षिणस्यां दण्डपाणिः, अपरस्यां वारुणः पाशपाणिः, उत्तरस्यां कुबेरो गदापाणिः। समवसरणक्रमेण, अन्ये [सूरयः अटी.] सर्वेषां चैव देवानां पूजा कर्तव्येति सम्बध्यते ॥१८॥ किं पुनरेषां पूजा क्रियत इत्याह - जमहिगयबिंबसामी, सव्वेसिं चेव अब्भुदयहेऊ । ता तस्स पइट्ठाए, तेसिं पूयादि अविरुद्धं ॥३६३॥ ८/१९ यद् यस्माद् अधिकृतबिम्बस्वामी जिनबिम्बस्वामी सर्वेषां चैवेन्द्रादिदेवानाम् अभ्युदयहेतुर्वृद्धिहेतुर्वर्तते । तत्तस्मात् तस्य भगवतः प्रतिष्ठायां प्रस्तुतायां तेषामिन्द्रादीनां पूजादि पूजासत्कारबहुमानादि अविरुद्धं शास्त्राविरुद्धं भवतीति शेषः ॥१९॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy