SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ गाथा-१२-१५ ८-बिम्बप्रतिष्ठाविधि-पञ्चाशकम् १०७ कुतः पुनः शुद्धपरिणामोः भवतीत्याह - आणापवित्तिओ च्चिय, सुद्धो एसो ण अण्णहा णियमा । तित्थगरे बहुमाणा, तदभावाओ य णायव्वो ॥३५६॥ ८/१२ आज्ञाप्रवृत्तित एव सर्वज्ञाज्ञानुसारि प्रवृत्तेरेव शुद्धो निरवद्यः एष परिणामः, नान्यथाऽन्येन प्रकारेण शुद्धो नियमा नियमेन तीर्थकरे बहुमानाद्धेतोः तदभावाच्च तीर्थकरबहुमानाभावाच्च ज्ञातव्यो विज्ञेयो यत्र तीर्थकरबहुमानः स शुद्धपरिणामोऽन्यस्त्वशुद्धः ॥१२॥ किं पुनरेतदेवमाश्रियत इत्याह - समतिपवित्ती सव्वा, आणाबज्झ त्ति भवफला चेव । तित्थगरुद्देसेण वि, न तत्तओ सा तदुद्देसा ॥३५७॥ ८/१३ स्वमतिप्रवृत्तिः स्वबुद्धिप्रवृत्तिः, सर्वा निरवशेषा आज्ञाबाह्येति कृत्वा भवफलैव संसारफलैव तीर्थकरोद्देशेनापि तीर्थकराङ्गीकरणेनापि न तत्त्वतः सा तदुद्देशान्न परमार्थेन सा आज्ञाबाह्यस्वमतिप्रवृत्तिः तदुद्देशात्तीर्थकरोदेशाद् वर्तते । किंतूपचरिततदुद्देशा आज्ञाविराधनप्रवृत्तस्तीर्थकरोद्देशेन किञ्चित्स्वमत्या कुर्वनपि न तीर्थकरोद्देशेन करोति तदाज्ञाविराधनप्रवृत्तत्वात् ॥१३॥ अमुमेवार्थं समर्थयन्नाह - मूढा अणादिमोहा, तहा तहा एत्थ संपयट्टता । तं चेव य मण्णंता, अवमण्णंता न याणंति ॥३५८॥ ८/१४ मूढाः पुमांसो अनादिमोहाद्धेतोस्तथा तथा आज्ञाविराधनेन अत्र तीर्थकरविषये सम्प्रवर्त्तमाना बिम्बादौ प्रवृत्तिं कुर्वन्तः । तमेव च तीर्थकरं मन्यमाना बहुमानविषयीकुर्वन्तः । अवमन्यमानाः परिभवन्तो न जानन्ति नावबुध्यन्ते। आज्ञाबहुमानात् तद्बहुमान इत्यर्थः ॥१४॥ प्रस्तुतवस्तु निगमयन्नाह - मोक्खत्थिणा तओ इह, आणाए चेव सव्वजत्तेणं । सव्वत्थ वि जतियव्वं, संमं ति कयं पसंगेण ॥३५९॥ ८/१५ मोक्षार्थिनाऽपवर्गाभिलाषिणा ततस्तस्माद् इह प्रक्रमे आज्ञायामेव सर्वज्ञसम्बन्धियां सर्वयत्नेन सर्वादरेण सर्वत्रापि शुभानुष्ठाने यतितव्यं चेष्टितव्यम् । सम्यक् सङ्गतं यथा भवति । इति कृतं प्रसङ्गेन पर्याप्तं विस्तरेण ॥१५॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy