________________
मिट्यवधा पश्चाताको दोष इत्याह गाथा
१०६
८-बिम्बप्रतिष्ठाविधि-पञ्चाशकम् गाथा-९-११ यदि पुनरनघस्येव सद्व्यसनस्यापि मूल्यमर्पयति ? ततः को दोष इत्याह - देवस्स परीभोगो, अणेगजम्मेसु दारुणविवागो । तंमि स होइ णिउत्तो, पावो जो कारुओ इहरा ॥३५३॥ ८/९
देवस्य देवार्थमपितद्रव्यम, कारणे कार्योपचारात् परिभोगोऽभ्यवहारो, देवस्य परिभोगो वा । देवार्थोपकल्पितधनपरिभोगो अनेकजन्मसु बहुषु भवेषु, दारूणविपाकस्तीव्रविपाको वर्तत । तस्मिन् परिभोगे स भवति नियुक्तो व्यापारितोऽबुद्धिमता कारयित्रा, पापः व्यसनोपहतः यः कारकः शिल्पी, इतरथान्यथा ॥९॥
किमित्येतदेवमित्याह - जं जायइ परिणामे, असुहं सव्वस्स तं न कायव्वं । सम्मं निरूविऊणं, गाढगिलाणस्स वाऽपत्थं ॥३५४॥ ८/१०
यज्जायते संभवति परिणामे भाविकाले अशुभमसुन्दरं कर्मबन्धहेतुः, सर्वस्य सत्त्वसङ्घातस्य तन्न कर्तव्यम् । निमित्तभावोपगतेन तत्कर्मबन्धं प्रति सहकारिभावोपगमदोषात्, तस्यापि शास्त्रबाधया कर्मबन्धनिमित्तत्वात् । शास्त्राराधने तु तत्कर्मबन्धनेऽपि स्वकर्मबन्धा-भावादात्मीय एव हि परिणामः शास्त्राराधनप्रवृत्तः कर्मबन्धदोषापहारी परदोषे प्रवृत्तिस्तु निमित्तमात्र शास्त्रवाक्यात् तस्याः निमित्तभावोपगमात्केवलात् तं तं कर्मबन्धं प्रति, सम्यन्यायेन निरूप्य समालोच्यायमेवं शिल्पी कर्मबन्धभाजनं न भवतीति भवत्येवं स्वबुद्ध्या गाढग्लानस्येव तीव्रग्लानस्येव अपथ्यमहितं न कर्तव्यमिति वर्तते । यथाऽतिपीडिताऽपटुशरीरस्याऽपथ्यं ज्ञात्वा परिणामसुन्दरं न भवतीति परिहियते, एवमिदमपीति भावः ॥१०॥
नन्वनघस्यापि बिम्बमूल्यसमर्पणे यदि कथञ्चिद् विपर्यासः स्यात्तदा सव्यसनमूल्यसमर्पणमिव तत्रापि दोषः स्यान्न वेत्येतदाशङ्क्य नास्ति तत्र दोषः कारयितुरित्याह -
आणागारी आराहणेण तीए ण दोसवं होति । वत्थुविवज्जासम्मि वि, छउमत्थो सुद्धपरिणामो ॥३५५॥ ८/११
आज्ञाकार्यागमोपदेशवर्ती आराधनेन सम्पा[द]नेन तस्या आज्ञाया न दोषवान् सापराधो भवति । वस्तुविपर्ययासेऽप्यनघशिल्पिनोऽन्यथाकरणेऽपि । छद्मस्थः कारयिता । शुद्धपरिणामो विशुद्धाध्यवसायः । स हि तदनुकम्पया प्रवृत्तस्तु संसारं न बहु मन्यते ततो निर्दोषोऽयम् ॥११॥