SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ गाथा-७-८ ८-बिम्बप्रतिष्ठाविधि-पञ्चाशकम् १०५ भिनिवृत्तायां शुद्धबुद्धौ शास्त्रानुसारिविमलप्रज्ञायां सत्याम्, कृत्यमिदं बिम्बकारणं मनुजानां पुरुषाणाम्, प्रायो धर्माधिकारिण एत इति ख्यापनार्थं मनुजग्रहणम्, अन्यथा देवानामपि कृत्यमिदं वर्तते बोधिलाभफलत्वात् तथाश्रुतेः । जन्मफल जीवितफलम् एतावदत्र नान्यदस्तीति भावः ॥३॥ गुणप्रकर्षो गुणपर्यन्तः जिनाः खलु जिना एव, तेषां जिनानां बिम्बस्य प्रतिकृतेः दर्शनमपि चक्षुविषयकरणमपि शुभं शुभहेतुत्वाद् वर्तते । कारणेन करणहेतुभावेन तस्य तु बिम्बस्य अनुग्रह उपकार आत्मनः परमः प्रधानः ॥४॥ __ मोक्षपथस्वामिनां सम्यग्दर्शनज्ञानचारित्राभिधानमोक्षमार्गाधिपतीनां मोक्षार्थमपवर्गार्थम् उद्यतेनोद्यमवता कुशलेन बुद्धिमता तद्गुणबहुमानादिषु मोक्षपथस्वामिनां गुणबहुमानादिष्वान्तरप्रीतिभक्तिपूजादिषु यतितव्य प्रवर्तितव्यं सर्वप्रयत्नेन सर्वादरेण ।।५।। ___ तद्गुणबहुमानाज्जिनगुणबहुमानात् तथा शुभभावेन विचित्रशुभाध्यवसायेनोत्तरोत्तरप्रकर्षवर्तिना बध्यते स्वीक्रियते नियमान्नियमेन कर्म शुभानुबन्धं पुण्यानुबन्धिपुण्यमित्यर्थः । तस्योदयात् सर्वसिद्धिरिति सर्वकार्यनिष्पत्तिः ॥६॥ इय सुद्धबुद्धिजोगा, काले संपूइऊण कत्तारं । विभवोचियमप्पेज्जा, मोल्लं अणहस्स सुहभावो ॥३५१॥८/७ इति शुद्धबुद्धियोगादेवंविधविमलमतिसम्बन्धात् तद्व्यापाराद् वा । काले शुभे सम्पूज्य समभ्यर्च्य भोजन-वस्त्र-पत्र-पुष्प-फलादिभिः कर्तारं शिल्पिनं विभवोचितं विभावानुरूपम् अर्पयेत् समर्पयेद् दद्यात्, मूल्यमनघस्याऽव्यसनस्य शिल्पोपाध्यायस्य शुभभावः कारयिता, प्रवर्धमानशुभपरिणाम उदारतया ॥७॥ व्यतिरेकगुणावहं विधिमाह - तारिसयस्साभावे, तस्सेव हितत्थमुज्जुओ नवरं । नियमेज्ज बिंबमोल्लं, जं उचियं कालमासज्ज ॥३५२॥ ८1८ तादृशस्योपाध्यायस्य अभावे तस्यैव शिल्पिनः हितार्थं हितनिमित्तम् उद्यतः प्रयतः नवरं केवलं नियमयेन्निकाचयेद् बिम्बमूल्यं प्रतिमामूल्यम् । त्रिस्कन्धकादिक्रमेणादिमध्यावसानेषु कर्मणः, यदुचितं यद् योग्यं कालं संव्यवहारिकं आसाद्याश्रित्य यथाऽसौ शिल्पी न पीड्यते ॥८॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy