________________
|| ॥ अष्टमं बिम्बप्रतिष्ठाविधि-पञ्चाशकम् ॥
जिनभवनकारणविधेरन्तरं तदशून्यतापादनाय बिम्बप्रतिष्ठासम्भवे तद्गतविधिमभिधातुमाहनमिऊण देवदेवं, वीरं सम्मं समासओ वोच्छं। जिणबिंबपइट्ठाए, विहिमागमलोगनीतीए ॥३४५॥ ८/१
नत्वा देवदेवं देवस्तुत्यं वीरं महावीरस्वामिनं सम्यक् प्रशस्तम् समासता वक्ष्य जिनबिम्बप्रतिष्ठायां विधि विधानम् आगमलोकनीत्या लोकनीत्या च [क्वचिज्जिनमताऽविरुद्धा लोकनीतिरपि आश्रयणीया - अटी.] ॥१॥ जिणबिंबस्स पइट्ठा, पायं कारावियस्स 'जत्तेण । तक्कारवणंमि विहि, पढमं चिय वण्णिमो ताव ॥३४६॥ ८/२
जिनबिम्बस्य प्रतिमारूपस्य प्रतिष्ठा न्यासो भवति, प्रायः कारितस्य विधापितस्य यत्नेन सर्वादरेण तत्कारण जिनबिम्बविधापने विधि कर्तव्योपदेशं प्रथममेवादावेव वर्णयामः प्रतिपादयामस्तावत् क्रमोद्योतने तावच्छब्दः । पूर्वं बिम्बकरणविधि तदनु प्रतिष्ठाविधिम् ॥२॥ १. जं तेण अटी.।
उत्सर्गापवादाभ्यां जिनबिम्बकारणविधिमेवाङ्गीकृत्याह - सोऊं नाऊण गुणे, जिणाण जायाए सुद्धबुद्धीए । किच्चमिणं मणुयाणं, जम्मफलं एत्तियं एत्थ ॥३४७॥ ८/३ गुणपगरिसो जिणा खलु, तेसि बिंबस्स दंसणं पि सुहं । कारावणेण तस्स उ, अणुग्गहो अत्तणो परमो ॥३४८॥ ८/४ मोक्खपहसामियाणं, मोक्खत्थं उज्जएण कुसलेणं । तग्गुणबहुमाणादिसु, जतियव्वं सव्वजत्तेणं ॥३४९॥ ८/५ तग्गुणबहुमाणाओ, तह सुहभावेण बज्झती नियमा। कम्मं सुहाणुबंधं, तस्सुदया सव्वसिद्धि त्ति ॥३५०॥८/६ श्रुत्वा पूर्वं तदनन्तरं ज्ञात्वा गुणांस्तीर्थप्रवर्तकत्वादीन् जिनानां भगवतां जातायामुत्पन्नायाम