________________
गाथा-४७-५०७ -जिनभवनविधि-पञ्चाशकम्
१०३ तत्रापिचायतनकरणे, साधुदर्शने भावोऽभिलाषः तदर्जितकर्मतस्तु तदुपात्तपुण्यकर्मतस्तु गुणरागा गुणप्रीतिः, काले चावसरे च साधुदर्शन साध्ववलोकनम्, अथ क्रमेणानुपूर्व्या यथाक्रमेण वा। यो योऽनुरूपः क्रमस्तेन, वीप्सायामव्ययीभावो, विभक्तेश्चालुक् । गुणकरणशीलंगुणकरमेव पुण्यसामर्थ्येन भवतीति सम्बन्धनीयम् ॥४६।।
पडिबुज्झिस्संतऽन्ने, भावज्जियकम्मओ य पडिवत्ती। भावचरणस्स जायइ, एगंतसुहावहा नियमा ॥३४१॥ ७/४७
प्रतिभोत्स्यन्तेऽवभोत्स्यन्ते प्रतिबोधं यास्यन्तीत्यर्थः । अन्ये जीवा । एवंविध भावार्जितकर्मतश्च विशिष्टभावाजितपुण्यकर्मतः प्रतिपत्तिरभ्युपगमो, भावचरणस्य चारित्रपरिणामस्य जायते सम्पद्यते। एकान्तसुखावहा एकान्तसुखो मोक्षः, तमावहतीति कृत्वा, तदवन्ध्यकारणत्वेन, नियमानियमेन पारम्पर्याव्यभिचारात् ॥४७॥
अपरिवडियसुहचिंताभावज्जियकम्मपरिणईए उ । गच्छति इमीए अंतं, तओ य आराहणं लहइ ॥३४२॥ ७/४८
अपरिपतिताऽप्रतिपतिता, शुभचिन्ता शुभाध्यवसायः तद्भावेन, तत्प्रत्ययात् तत्परिणामेन वा अर्जितमुपात्तं यत्कर्म पुण्यं तत्परिणतेस्तद्विपाकात्, पुनः गच्छत्यस्याः शुभचिन्तायाः चरणप्रतिपत्तेर्वा अन्त पर्यवसानं प्रकर्षे ततस्तु ['य' = च अटी.] प्रकर्षाद् आराधनां ज्ञानादिनिष्पत्तिः लभते प्राप्नोति ॥४८॥ निच्छयनया जमेसा, चरणपडिवत्तिसमयओ पभिति । आमरणंतमजस्सं, संजमपरिपालणं विहिणा ॥३४३॥ ७/४९ निश्चयनयनान्निश्चयनयाभिप्रायाद् यद् यस्माद् एषाराधना चरणप्रतिपत्तिसमयतः प्रभृति चरणप्रतिपत्तिकालादारभ्य आमरणान्तमजस्त्रं संयमपरिपालनं विधिनागमोक्तेन ॥४९॥
आराहगो य जीवो, सत्तट्ठभवेहिं पावए नियमा । जम्मादिदोसविरहा, सासयसोक्खं तु निव्वाणं ॥३४४॥ ७/५०
आराधकश्च जीवश्चरणप्रतिपत्तेः सप्ताष्टभवैः सप्तभिरष्टभिर्वेत्यर्थः । प्राप्नोति लभते नियमान्नियोगेन। जन्मादिदोषविरहाज्जन्मजरामरणदोषविगमात् शाश्वतसौख्यं तु ध्रुवसौख्यमेव निर्वाणं सिद्धपदम् ॥५०॥
॥जिनभवनकारणविधान-पञ्चाशकं सप्तमं समाप्तम् ॥