SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १०२ ७-जिनभवनविधि-पञ्चाशकम् गाथा-४२-४६ एवं जिनभवनविधानगतायाः प्रवृत्तेनिर्दोषत्वमापाद्याऽहिंसारूपतामुपदर्शयन्नाह - एवं निवित्तिपहाणा, विण्णेया भावओ अहिंसेयं । जयणावतो उ विहिणा, पूजादिगया वि एमेव ॥३३६॥ ७/४२ एवं निवृत्तिप्रधाना बहुसत्त्वसंरक्षणप्रधाना विज्ञेया अवबोद्धव्या भावतः परमार्थेन अहिंसेयं जिनभवनगता । यतनावतस्तु प्रयत्नवत एव, विधिना शास्त्रोक्तेन पूजादिगताप्येवमेव पूजास्नात्रविलेपनादिगतापि प्रवृत्तिः, अहिंसैवेति वर्तते ॥४२॥ तदनन्तरविधिमाह - निप्फाइऊण एवं, जिणभवणं सुंदरं तहिं बिंबं । विहिकारियमह विहिणा, पतिद्ववेज्जा लहुं चेव ॥३३७॥ ७/४३ निष्पाद्य परिसमाप्य एवं जिनभवन जिनायतनं सुन्दरं श्रेष्ठं तत्रायतने बिम्बं प्रतिमाख्यं विधिकारित शास्त्रोक्तविधिनिष्पादितम् अथ विधिना शास्त्रोक्तेनैव प्रतिष्ठापयेत् । लघु चैव शीघ्रमेव ॥४३॥ एयस्स फलं भणियं, इय आणाकारिणो उ सड्डस्स । चित्तं सुहाणुबंधं, नेव्वाणंतं जिणिदेहिं ॥३३८॥ ७/४४ एतस्य सर्वस्यैव पूर्वोक्तस्य, फलं भणितमित्येवम् आज्ञाकारिणस्तु सर्वज्ञाज्ञाकारिणः श्राद्धस्य श्रद्धावतः, चित्रं नाना प्रकारं देवमनुजजन्मसु तथाविधाभ्युदयरूपं शुभानुबन्धम् शुभोऽनुबन्धः सन्तानोऽस्येति कल्याणपरंपरारूपम्, निर्वाणान्तमपवर्गान्तं जिनेन्द्रैः सर्वज्ञैः ॥४४॥ पूर्वोक्तस्यैव विषयविभागख्यापनायाह - जिणबिंबपइट्ठावणभावज्जियकम्मपरिणइवसेणं । सुगतीइ पइट्ठावणमणहं सइ अप्पणो चेव ॥३३९॥ ७/४५ जिनबिम्बप्रतिष्ठापनम् तस्मिन् भावस्तेन अर्जितं कर्म पुण्यं तत्परिणतिवशात्तत्परिपाकसामर्थ्यात् । सुगतौ स्वर्गादिगतौ प्रतिष्ठापनमवस्थापनम् अनघं अनिर्दोषम्, सदा सर्वदा आत्मन एव स्वजीवस्यैव ॥४५॥ तत्थ वि य साहुदंसणभावज्जियकम्मओ उ गुणरागो । काले य साहुदंसणमहक्कमेणं गुणकरं तु ॥३४०॥ ७/४६
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy