________________
गाथा - ३९-४१
७- जिनभवनविधि-पञ्चाशकम्
तत्र शिल्पादिविधाने प्रधानांशः प्रवर्तकोऽवयवः बहुदोषनिवारणात्त्वधिकदोषनिवारणैव, जगद्गुरार्भगवतः, नागादिरक्षणे नागादेः सर्पादेरुपद्रवहेतोः सकाशाद् रक्षणे । यथा कर्षणदोषेऽप्याकर्षणजनितापराधेऽपि मात्रादेः सुतादिविषये शुभयोगः शुभव्यापारः, तथैव भगवतः शुभयोगो वर्तते । नागादिरक्षणेऽधिकदोषाभावेन शुभयोग एव ॥ ३८॥
दृष्टान्तगतं विवरीतुमाह -
१०१
खड्डातडम्मि विसमे, इट्ठसुयं पेच्छिऊण कीलंतं । तप्पच्चवायभीया, तदाणणट्ठा गया जणणी ॥ ३३३ ॥ ७/३९ दिट्ठो य तीए नागो, तं पति एंतो दुओ उ खड्डाए ।
तो कड्डितो तो तह, पीडाए वि सुद्धभावाए ॥ ३३४॥ ७/४० जुम्म श्वभ्रतटे विषमे निम्नोन्नतादिरूपे, इष्टसुतमिष्टपुत्रं प्रेक्ष्य क्रीडन्तं स्वेच्छया विचरन्तं तत्प्रत्यवायभीता सुतापायभीता, तदानयनार्थं तनयानयनार्थं गता जननी ॥३९॥
दृष्टश्च साक्षात् प्रत्यक्षतः तया जनन्या नागो भुजङ्गः, तं प्रति पुत्रं प्रति यन् व्रजन् आगच्छन्नित्यर्थः, द्रुतस्त शीघ्रगति द्रुतं वा गर्तेन निम्नस्थानेन ततस्तदनन्तर कृष्ट आकृष्टः तकः पुत्रः तच्छब्दस्याकच्प्रत्ययसहितस्य विकल्पेन शतृविधानाच्छब्दसिद्धिः, पाणिनीयोपनिबद्धमुण्डकेष्वभिधानात् । तथा पीडायामपि निम्नोन्नतकण्टकशाखावमर्दनादिजनितबाधायामपि सत्याम्, शुद्धभावया हितपरिणामोपेताध्यवसायया जनन्या । एवं भगवताप्यधिकदोषेभ्यो रक्षिताः प्राणिनः । सामान्यस्तु दोषे प्रवृत्तिस्तेषां स्वयमेवावस्थिता न तत्र भगवान्निमित्तम्, स्वयमेव हि शरीराद्यर्थे दुःखप्रतीकाराय प्राणिनः प्रवर्तन्ते, अभ्यवहारादिषु भगवाँस्तु स्वौचित्यं विज्ञाय किञ्चिदुपदिशति, तावतैव तेऽनुग्रहं मन्यन्ते । केवलज्ञानोत्पत्तौ च भगवतो (वान्) धर्माधर्मयोः प्रवृत्ति - निवृत्ती विदधति इति निर्दोषं शिल्पादिविधानम् ॥४०॥
1
प्रस्तुतवस्तुसमर्थनायाह -
एयं च एत्थ जुत्तं, इहराहिगदोसभावओऽणत्थो । तप्परिहारेऽणत्थो, अत्थो च्चिय तत्तओ ओ ॥ ३३५ ॥ ७/४१
एतच्च शिल्पादिविधानम् अत्र युक्तं न्यायोपपन्नम् इतरथाऽन्यथा, अधिकदोषभावतो ऽधिकदोषसद्भावाद् अनर्थः तत्परिहारे विशिष्टप्रत्यवायपरिहारे, अधिकदोषपरिहारे सतीत्यर्थः । अनर्थः स्वल्परूपः कश्चित् सुतपीडान्यायेन अर्थ एव तत्त्वतो ज्ञेयः समीहितकार्यसिद्ध्या । सर्वत्रापि हि समीहितार्थसिद्धिरेव परमार्थेनार्थो भवति, तत्प्राप्तौ शेषक्लेशाऽगणनात् ॥४१॥