________________
९८
७-जिनभवनविधि-पञ्चाशकम् गाथा-२६-२९ स्वाशयवृद्धिरपि कुशलपरिणामवृद्धिरपि इह प्रस्तुते भुवनगुरुजिनेन्द्रगुणपरिज्ञया तीर्थकरगुणपरिज्ञानेन । तबिम्बस्थापनार्थं तीर्थकरबिम्बस्थापनार्थं शुद्धप्रवृत्त्या हेतुभूतया नियमान्नियोगेन ॥२५॥
पेच्छिस्सं एत्थ अहं, वंदणगनिमित्तमागए साहू । कयपुण्णे भगवंते, गुणरयणनिही महासत्ते ॥३२०॥ ७/२६
प्रेक्षिष्ये द्रक्ष्यामि अत्रायतने अहं वंदनकनिमित्तं चैत्यवन्दनार्थम् आगतान् साधून् कृतपुण्यानन्यथा भावसाधुत्वायोगात् पूर्वजन्मविहितपुण्यान्, भगवतो विशिष्टभावैश्वर्यादिसम्पन्नान् गुणरत्ननिधीन क्षान्त्यादिगुणरत्नाकरान् महासत्त्वान् महाव्यवसायान् ॥२६॥ पडिबुज्झिस्संति इहं, दट्टण जिणिदबिंबमकलंकं । अण्णे वि भव्वसत्ता, कार्हिति तओ परं धम्मं ॥३२१॥ ७/२७
प्रतिभोत्स्यन्ते सम्यक्त्वं लप्स्यन्ते भावनिद्रापगम इहाऽऽयतने दृष्ट्वा जिनेन्द्रबिम्बमकलङ्क दोषरहितम् अन्येऽपि भव्यसत्त्वास्तथाविधपुण्यसामर्थ्यप्रेरिता । करिष्यन्ति ततस्तदनन्तरं परं धममुत्कृष्टं धर्मम् ॥२७॥
ता एयं मे वित्तं, जमेत्थमुवओगमेति अणवरयं । .. इय चिंताऽपरिवडिया, सासयवुड्डी उ मोक्खफला ॥३२२॥ ७/२८
ततस्तस्माद् एतदिदमेव मे [मदीयम् अटी.] वित्तं द्रव्यं यदत्रायतने उपयोगमेत्युपयुज्यत। अनवरतं सततम् इत्येवंविधा चिन्ता मनोवृत्तिः अप्रतिपतितापरिपतिता वा। स्वाशयवृद्धिस्तु मोक्षफला सिद्धिफला ॥२८॥
यतनां विवरीषुराह - जयणा य पयत्तेणं, कायव्वा एत्थ सव्वजोगेसु । जयणा उ धम्मसारो, जं भणिया वीयरागेहिं ॥३२३॥ ७/२९
यतना च प्रयत्नेन कर्तव्याऽत्र जिनायतनकारणे। सर्वयोगेषु सर्वव्यापारेषु यतनैव धर्मसारो धर्मोत्कर्षः । यद् यस्माद् भणितोक्ता वीतरागैः चार्हद्भिः ॥२९।।