________________
गाथा -३०-३३
तामेव स्तोतुमाह -
जयणा उ धम्मजणणी, जयणा धम्मस्स पालणी चेव । तव्वुड्डीकरी जयणा, एगंतसुहावहा जयणा ॥ ३२४॥
७- जिनभवनविधि-पञ्चाशकम्
७/३०
यतना च धर्मजननी धर्ममाता । यतना धर्मस्य पालनी चैव धर्मरक्षणकारित्वेन । तद्वृद्धिकरी यतना धर्मोपचयकरणशीला । एकान्तसुखावहा यतना मोक्षावहेत्यर्थः ॥३०॥ जयणाएँ वट्टमाणो, जीवो सम्मत्तनाणचरणाणं । सद्धाबोहासेवणभावेणाराहगो भणिओ ॥ ३२५ ॥ ७/३१
एनामेव फलत आह
यतनायां वर्तमानो जीवः सम्यक्त्वज्ञानचरणानां भावरत्त्ररूपाणाम्, श्रद्धाबोधाऽऽसेवनभावेन आराधका भणितः । श्रद्धया सम्यक्त्वस्य बोधेन ज्ञानस्यासेवनेन चरणस्य संसाधक उक्तः ॥३१॥
-
९९
एसा य होइ नियमा, तदहिगदोसविणिवारणी जेण । तेण निवित्तिपहाणा, विण्णेया बुद्धिमंतेहिं ॥३२६॥
७/३२
एषा च यतना भवति नियमात्तदधिकदोषनिवारण्यारम्भान्तराधिकदोषनिवारणी, येन कारणेन तेन निवृत्तिप्रधाना विज्ञेया बुद्धिमद्भिः । अन्यदा हि स्वारम्भेषु प्रवर्तमानो गृही यतनां नापेक्षते । यथाकथञ्चित् स्वाभिप्रेतं करोत्येव, धर्मेऽनुवर्तमानः सर्वं यतनापूर्वकं विधत्त । धर्मपक्षपातात् तेनाऽऽरम्भान्तरेभ्योऽधिकदोषेभ्यो निवृत्तिफलेयं यतना सम्पद्यते ॥३२॥
कीदृशी पुनः सा प्रस्तुतवस्तुनीत्याऽऽह -
सा इह परिणयजलदलविसुद्धिरूवा उ होति नायव्वा । अन्नारंभनिवित्तीए अप्पणाहिट्टणं चेव ॥ ३२७॥
७/३३
सायना इह प्रस्तुतजिनभवनकारणे परिणतजलदलविशुद्धिरूपा तु परिपूत-त्रसादिरहितजलविशुद्धरूपैव भवति ज्ञातव्या अन्यारम्भेभ्यो गृहादिगतेभ्योऽनिवृत्तिः निरावृत्तिस्तदानीं तयाअन्यारम्भनिवृत्त्यात्मना स्वयमेव अधिष्ठानमध्यासनं चैव जिनायतनारम्भाणां स्वयमेवाधिष्ठातृत्वं प्रतिपद्यते । तेन कृष्याद्यारम्भेभ्यो निवृत्तिफलेयं भवति ॥३३॥