SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ९७ गाथा-२१-२५ ७-जिनभवनविधि-पञ्चाशकम् शकुनादयः सर्वत्र शकुनपूर्वप्रवृत्तेरिष्टफलसाधनसंसूचकत्वात् ॥२०॥ शुद्धदलमुक्तमधुना भृतकानतिसन्धानमाह - कारवणे वि य तस्सिह, भितगाणऽतिसंधणं न कायव्वं । अवियाहिगप्पयाणं, दिट्ठादिटुप्फलं एयं ॥३१५॥ ७/२१ कारणेऽपिच प्रयोजकव्यापाररूपे तस्य जिनभवनस्य इह प्रक्रमे, भृतकानां कर्मका[क]राणाम् अतिसन्धान वञ्चनं न कर्तव्यं न विधेयम् । अपि वाऽधिकप्रदानमुक्तादधिकस्य द्रव्यस्य प्रदानं समधिकदानमित्यर्थः। दृष्टादृष्टफलमेतदधिककर्मबोधिबीजादिफलमेतदधिकप्रदानम्॥२१॥ एतदेव व्यक्तीकर्तुमाह - ते तुच्छगा वराया, अहिगेण दढं उवेंति परितोसं । तुट्ठा य तत्थ कम्म, तत्तो अहिगं पकुव्वंति ॥३१६॥ ७/२२ ते भृतकाः तुच्छका तुच्छविभवाशयाः वराकाः क्रियास्पदत्वात्, अधिकेनाधिकप्रदानेन दृढमत्यर्थम् उपयान्ति गच्छन्ति परितोषं हर्षम्। तुष्टाश्च परितोषवन्तः तत्रायतने कर्मव्यापाररूपे ततः पूर्वस्माद् अधिकं प्रकुर्वन्ति स्वमतिपरितोषाढ्यम् ।।२२।। धम्मपसंसाए तहा, केइ निबंधंति बोहिबीयाई । अण्णे उ लहुयकम्मा, एत्तो च्चिय संपबुज्झंति ॥३१७॥ ७/२३ धर्मप्रशंसया तथा भावगर्भया केचिद् भृतकाः निबध्नन्ति सम्पादयन्ति बोधिबीजानि बोधिलाभकारणपुण्यानि । अन्येत्वपरे पुनर्भूतकाः लघुकर्माणः प्रतनुज्ञानावरणीयादिकर्मांशाः । अत एवाधिकदानात् सम्प्रबुध्यन्ते सम्यक्प्रबोधमुपयान्ति ॥२३॥ लोगे य साहुवाओ, अतुच्छभावेण सोहणो धम्मो । पुरिसोत्तमप्पणीओ, पभावणा चेव तित्थस्स ॥३१८॥ ७/२४ लोके च साधुवादः साध्वभिधानं यशोवाद इत्यर्थः । अतुच्छभावेनोदारभावेन । शोभनो धर्मः, सुन्दरो जैनधर्मः, पुरुषोत्तमप्रणीतः सर्वज्ञप्रणीतः । प्रभावना चैव तीर्थस्य प्रकाशना शासनस्योन्नतिरिति यावत् ॥२४॥ अधुना स्वाशयवृद्धिमाह - सासयवुड्डी वि इहं, भुवणगुरुजिणिदगुणपरिणाए । तबिबट्ठवणत्थं, सुद्धपवित्तीऍ नियमेण ॥३१९॥ ७/२५
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy