________________
९६
७- जिनभवनविधि - पञ्चाशकम्
चात्मनैव कारितम् वृक्षादिपातनेन, यत् तेनैव तत्र महारम्भदोषात् ॥१७॥ कः पुनस्तस्य (शुद्धाशुद्धत्व अटी.) परिज्ञानोपाय इत्याह - तस्स वि य इमो णेओ सुद्धासुद्धपरिजाणणोवाओ । तक्कहगहणाइम्मी, सउणेयरसन्निवाओ जो ॥३९२॥
७/१८
तस्यापि च प्रस्तुतदलस्य अयं वक्ष्यमाणो ज्ञेयः शुद्धाशुद्धपरिज्ञानोपायः शुद्धमिदमशुद्धमिति वा । अस्मिन् विषये तत्कथाग्रहणादौ तत्कथादलविषयकथाग्रहणं स्वीकारस्तस्यैवादि-शब्दादानयनविशिष्टदेशोपस्थापनग्रहः । शकुनेतरसन्निपातो यः शकुनानामितरेषां च तद्विपरीतानां लोकशास्त्रप्रसिद्धानां समागमस्तत्कालभावित्वम् ॥१८॥ शकुनेतरप्रतिपादनयैव लेशत आह
-
गाथा - १८-२०
नंदादि सुहो सद्दो, भरिओ कलसोत्थ सुंदरा पुरिसा । सुहजोगाइ य सउणो, कंदियसद्दाइ इयरो उ ॥ ३१३॥
७/१९ नन्दी द्वादशविधस्तूर्यसंघातस्तदादिरन्योऽपि द्वित्र्यादिसंयोगतः केवलो वा, शुभः शब्दो निमित्तशास्त्रप्रसिद्धः ।
सिद्धे इंदे चन्दे, सूरनरिन्दे तहेव गोविन्दे । सेल- समुद्दे गय-वसह सीह तह मेह सद्दे य ॥१॥
इति वा । शुभशब्दः भरितः परिपूर्णसलिलादिना, भृतो वा । इतजन्तस्तारकादिषु [ ] भरशब्दस्य पाठात् । द्वितीयसूक्तात् कलशो घटः अत्र वा सुन्दराः पुरुषाः अहीनपाण्याद्यवयवा सुखाश्च [सुखप्रदः] शुभयोगश्चन्द्र-नक्षत्रादिशुभसम्बन्धः, आदिशब्दाच्छुभमुहूर्तादिपरिग्रहः, शुभयोग आदिर्यस्य स शुभयोगादि तथा शुभशकुनः । क्रन्दितशब्दादितरस्तु क्रन्दितशब्दो विक्लवध्वनिरादिशब्दाद् रुदिताद्यमनोज्ञरूपादिपरिग्रहः क्रन्दितशब्द आदिर्यस्य स तथा इतरस्तद्विपरितः, अशकुन इत्यर्थः ॥१९॥
दलकथाग्रहणादौ शकुनेतरसन्निपातः शुद्धाशुद्धपरिज्ञानोपाय उक्तस्तदनन्तरं विधिमाह - सुद्धस्स वि गहियस्सा, पसत्थदियहम्मि सुहमुहुत्तेणं । संकामम्मि वि पुणो, विण्णेया सउणमादीया ॥३१४॥ ७/२०
शुद्धस्यापि शास्त्रोक्तदोषरहितस्यापि गृहीतस्य स्वीकृतस्य दलस्य प्रशस्तदिवसे शुक्लपञ्चम्यादौ शुभमुहूर्तेन सिद्धान्तोक्तेन सङ्क्रामणेऽपि विवक्षितदेशानयनेऽपि पुनर्विज्ञेयाः