SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ७- जिनभवनविधि- -पञ्चाशकम् गाथा - १४-१७ त्वागमविधिनैव ॥१३॥ 'भावे पराऽप्रीतिरहिता इत्युक्तम् [७/१० गाथायाम् ] तदङ्गीकरणेनाह धम्मत्थमुज्जएणं, सव्वस्सापत्तियं न कायव्वं । संजमोऽवि सेओ, एत्थ य भयवं उदाहरणं ॥ ३०८ ॥ ७ /१४ धर्मार्थं धर्मनिमित्तम् उद्यतेन उद्यमवता सर्वस्य जनस्य अप्रीतिकमरतिरूपं न कर्तव्यम् अप्रीतिर्न करणीया । इत्येवमनेन प्रकारेण संयमोऽपि भावस्तथापि किमुत द्रव्यस्तवः, श्रेयानतिशयप्रशस्य अत्र चाथे भगवान् वर्धमानस्वाम्युदाहरणं निदर्शनम् ॥१४॥ एतदेवाह - सो तावसासमाओ, तेसिं अप्पत्तियं मुणेऊणं । परमं अबोहिबीयं, तओ गओ हंतकाले वि ॥ ३०९ ॥ ७/१५ ९५ स भगवांस्तापसाश्रमात् कुलपत्यधिष्ठितात् तापसनिवासात्, तेषां तापसानां अप्रीतिकं सङ्क्लेशं मत्वावगम्य परममबोधिबीजमुत्कृष्टमबोधिलाभकारणम् । ततस्तापसाश्रमाद् तो निष्क्रान्तो, हन्तेत्यामन्त्रणे । अकालेऽपि वर्षासमयेऽपि प्रथमार्धमासपर्यन्ते ॥ १५ ॥ इय सव्वेण वि सम्मं, सक्कं अप्पत्तियं सइ जणस्स । नियमा परिहरियव्वं, इयरम्मि सतत्तचिंता उ ॥३१०॥ ७/१६ इति हेतौ सर्वेणापि धर्मार्थिना सम्यक् सन्यायेन शक्यं परिहर्तुं शकनीयं । मध्यस्थबुद्ध्या, अप्रीतिकं द्वेषकारणं 'सई' सदा सर्वकालं जनस्य लोकस्य नियमान्नियमेन परिहर्तव्यं परिहरणीयमितरस्मिन् शक्यधर्मजीवितादिस्वरूपविषये, स्वतत्त्वचिन्ता तु स्वरूपचिन्तैव । ममैवायं दोष इति चिन्तनीयम्, नान्यस्मिन् जन्मान्तरेऽस्माभिः प्रकृष्टं पुण्यमुपार्जितम् । तेन मनोवाक्कायदोषरहितानामप्यस्माकं लोके न वृतिभाग् भवति, यदि पुनर्विशिष्टं पुण्यमस्माभिः कृतं स्यात्तत एषां शुभभावो धर्मव्यवस्थितानामस्माकमुपरि स्यात् ॥१६॥ I दलमधिकृत्याह - कट्ठादी वि दलं इह, सुद्धं जं देवतादुववणाओ । नो अविहिणोवणीयं, सयं च कारावियं जं नो ॥३११॥ ७/१७ काष्ठाद्यपि, आदिशब्दादिष्टकादिग्रहः, दलमिह प्रक्रमे शुद्धं यद्देवताद्युपवनात्, आदिशब्दात् सिंहमनुष्यादिग्रहः । नो नैव अविधिना बलीवर्दादिमहापीडारूपेण उपनीतमानीतम् । स्वयं
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy