________________
९४
७-जिनभवनविधि-पञ्चाशकम् गाथा-१०-१३ वञ्चनम् । [स्वाशयः] शोभन आशयः, शुभपरिणामस्तस्य वृद्धिश्च कुशलपरिणामवृद्धिश्च । विवेकवृद्धिरिति यावत् । यतना च कालोचितसम्भवाऽऽत्मप्रतिपन्नरूपा ॥९॥
शुद्धभूमिप्रतिपादनोपायानाह - दव्वे भावे य तहा, सुद्धा भूमी पएसऽकीला य । दव्वेऽपत्तिगरहिया, अण्णेसि होइ भावे उ ॥३०४॥ ७/१०
द्रव्ये भावे च तथा शुद्धा भूमिः द्रव्यशुद्धा भावशुद्धा चेत्यर्थः । साधु-श्रावकजनोचितप्रदेशवत्यकीला[लि]का चाऽस्थ्याद्यशुभकीलकलङ्कवजिता वास्तुविद्याविहितेति यावत्। द्रव्य द्रव्यविषया शुद्धाभूमिरिति वर्तते अप्रीतिकरहिताऽनभिमतत्वरहिता अन्येषामासन्नानां मनुष्यादीनां भवति । भावे तु भावविषया शुद्धा भूमिः ॥१०॥
इहैव हेतुमाह - अपदेसम्मि न वुड्डी, कारवणे जिणघरस्स न य पूया । साहूणमणणुवातो, किरियानासो उ अववाए ॥३०५॥ ७/११ __ अप्रदेशे शास्त्रप्रतिषिद्धप्रदेशेऽप्रशस्तप्रदेशेत्यर्थः, न वृद्धिर्न प्रतिदिनमुपचयः, कारणनिर्वर्तनं जिनगृहस्य जिनायतनस्य, न च पूजा तद्व्यवस्थितबिम्बानाम्, (कारावणे-विधापने अटी.) साधुनामननुपातोऽसंपातोऽनागमनमित्यर्थः । क्रियानाशश्च साधुक्रियाध्वंसश्च अवपाते कथञ्चिदागमने साधूनामप्रदेशे एते दोषाः ॥११॥
इमे चान्ये - सासणगरहा लोए, अहिगरणं कुत्थियाण संपाए। आणादीया दोसा, संसारनिबंधणा घोरा ॥३०६॥ ७/१२
शासनगर्दा, लोकेऽविगिताश्चैते श्वान रूपमाश्रयं गृह्णन्तीति वचनकुत्सा। अधिकरणं कलहः कुत्सिताना निन्द्यानां सम्पाते समागमे । आज्ञादयश्च दोषा आज्ञाभङ्गा-नवस्था-मिथ्यात्वविराधनाख्याः । संसारं निबध्नाति संसारनिबन्धना घोराः परिणामदारुणाः ॥१२॥
कीलादिसल्लजोगा, होति अनिव्वाणमादिया दोसा । एएसि वज्जणट्ठा, जएज्ज इह सुत्तविहिणा उ ॥३०७॥ ७/१३
कीलकादि-शल्ययोगाद्, आदिशब्दादङ्गरादिपरिग्रहः, भवन्त्यनिर्वाणादयो दोषा, अनिवृत्य-र्थहान्य-सिद्ध्यादयः एतेषां दोषाणां वर्जनार्थं यतेत प्रयत्नं कुर्वीत इह सूत्रविधिना