________________
॥ सप्तमं जिनभवनविधि - पञ्चाशकम् ॥
जिनभवनादिविधानं द्रव्यस्तवोऽभिहितस्तत्कारणविधानमुपदिदि नमिऊण वद्धमाणं, वोच्छं जिणभवणकारणविहाणं । संखेवओ महत्थं, गुरूवएसाणुसारेणं ॥ २९५ ॥ ७/१
नत्वा वर्धमानं स्वगुणैः प्रवर्धमानप्रवचनं वक्ष्ये जिनभवनकारणविधानं जिनभवनप्रयोजकव्यापारविधिं सङ्क्षेपतः सङ्क्षेपेण, महार्थं महाप्रयोजनं पारम्पर्येण मुक्तिसाधनत्वात् । गुरूपदेशानुसारेणागमज्ञ - सदनुष्ठाननिरताचार्यपारम्पर्यवचनानुसारेण ॥१॥
विधानमेव लेशत आह
-
अहिगारिणा इमं खलु, कारेयव्वं विवज्जए दोसो । आणाभंगाउ च्चिय, धम्मो आणाए पडिबद्धो ॥ २९६ ॥
७/२
अधिकारिणा शास्त्रनियुक्तेन इदं खलु कारयितव्यं नान्येन, विपर्यये दोषोऽनधिकारिणः करणे शास्त्रानुदितत्वेनापराध:, आज्ञाभङ्गादेवाज्ञाविराधनादेव, धर्म आज्ञायां प्रतिबद्धो नियतो वर्तते । आज्ञायां सत्यां भवति, तदा (द) भावे न भवतीति तत्प्रतिबद्ध उच्यते ॥२॥
आराहणाए तीए, पुण्णं पावं विराहणाए उ ।
एयं धम्मरहस्सं, विण्णेयं बुद्धिमंतेहिं ॥ २९७ ॥
७/३
आराधनायां प्रतिपालनायां तस्या आज्ञायाः पुण्यम्, पापं विराधनायां तु विराधनायां वा एतत् प्रागुक्तं धर्मरहस्यं धर्मगुह्यं विज्ञेयं बुद्धिमद्भिः पुरुषैः ॥३॥
अधिकारिणेत्युक्तं तमेवाह [ गाथाद्वयेन ].
-
अहिगारी उ गिहत्थो, सुहसयणो वित्तसंजुओ कुलजो । अक्खुद्द धितिबलिओ, मतिमं तह धम्मरागी य ॥ २९८ ॥
७/४
गुरुपूयाकरणरई, सुस्सूसाइगुणसंगओ चेव । णायाऽहिगयविहाणस्स धणियमाणापहाणो य ॥ २९९॥ ७/५ जुग्गं । अधिकारी तु जिनभवनादिकारणनियुक्तः पुनः गृहस्थो गृही गृहिधर्मनिरतः । शुभा