SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ९२ ७-जिनभवनविधि-पञ्चाशकम् गाथा-६-८ धर्मलोकधर्मव्यवहारपराः स्वजना यस्य स तथा [शुभस्वजनतः] । वित्तसंयुतो न्यायोपात्तवित्तसमन्वितः, कुलजोऽन्वयशुद्धियुक्तः अक्षुद्रोऽकृपणः, धृतिबलमस्यास्तीति धृतिबलिकः धृतिबलि र्वा । मतिमान् औत्पत्तिक्यादिबुद्धिसमन्वितः पूर्वापरालोचनपरो वा । तथा धर्मरागी च धर्मानुरागसम्पन्नश्च ॥४॥ ___ गुरुपूजाकरणरतिर्मुरवः पूज्याः । सर्व एव लौकिकलोकोत्तराः । लौकिकाः पित्रादयो वयोवृद्धाश्च । लोकोत्तरा धर्माचार्यादयः तत्पूजासम्पादनप्रवणः, यथा यथा तेषां रतिरुत्पद्यते तथा तथा चेष्टते पूजानिरतत्वेन शुश्रूषादिगुणसङ्गतश्चैव । शुश्रूषादयोऽष्टौ प्रज्ञागुणाः । यथोक्तम् - शुश्रूषा श्रवणं चैव, ग्रहणं धारणं तथा। ऊहाऽपोहोऽर्थविज्ञानं, तत्त्वज्ञानं तु धीगुणाः ॥[आचारोपदेश गाथा-४३] तत्समन्वितः, ज्ञाता अधिकृतविधानस्य जिनभवनकारणविधानस्य, धनिकमत्यर्थम् आज्ञाप्रधानश्चागमप्रधानश्च ।।५।। एसो गुणड्डिजोगा, अणेगसत्ताण तीए विणिओगा। गुणरयणवियरणेणं, तं कारेंतो हियं कुणइ ॥३००॥ ७/६ एषोऽधिकृतोऽधिकारी, गुणद्धियोगाद्गुणसमृद्धिसम्बन्धाद् अनेकसत्त्वानां तस्या गुणधैः विनियोगा व्यापाराद् गुणरत्नवितरणेन पुण्यानुबन्धिपुण्यसम्यक्त्वादिसम्पादनेन तज्जिनभवनं कारयन् हित करोत्यनेकसत्त्वस्य, एवं श्रुतत्वात् ॥६॥ गुणरत्नवितरणमेवाह - तं तह पवत्तमाणं, दृढ़ केइ गुणरागिणो मग्गं । अण्णे उ तस्स बीयं, सुहभावाओ पवज्जंति ॥३०१॥ ७/७ तमधिकारिणं तथाऽऽगमनीत्या प्रवर्तमानं जिनभवनकारणे । दृष्ट्वा केचिद्गुणरागिणो गुणानुरागसम्पन्ना मार्गं सम्यग्दर्शनादिलक्षणम्, अन्येत्वपरे पुनस्तस्य मार्गस्य बीजं दर्शनप्रशंसादिकं शुभभावाच्छुभाध्यवसायात् प्रपद्यन्त अभ्युपगच्छन्ति ॥७॥ कस्मात् पुनर्गुणानुरागिणां शुभभावः प्रशस्यत इत्याह - जो च्चिय सुहभावो, खलु सव्वन्नुमयम्मि होइ परिसुद्धो । सो च्चिय जायइ बीयं, बोहीए तेणणाएण ॥३०२॥ ७/८ य एव शुभभावो दर्शनप्रशंसादिः । खलुशब्दा वाक्यालङ्कारे । सर्वज्ञमते सर्वज्ञशासन
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy