________________
६-स्तवनविधि-पञ्चाशकम् _ गाथा-४८-५० ___ लोके सर्वस्मिन्नैव जने श्लाघनीयो वर्णनीयः । प्रशंसास्पदत्वाद् विशेषयोगाद् विशेषसम्बन्धाद्विशिष्टत्वादित्यर्थः । उन्नतिनिमित्तं प्रभावनाहेतुः यः शासनस्य दर्शनस्य जायते उन्नतिनिमित्तं सम्भवति । स द्रव्यस्तवो ज्ञेयः सुपरिशुद्ध इति यः प्रागुक्तः ॥४७॥
ननु किं द्रव्यस्तवे कश्चिद्भावलेशोऽस्ति येनैवमभिधीयत इत्याह - :तत्थ पुण वंदणाइम्मि, उचियसंवेगजोगओ नियमा । अत्थि खलु भावलेसो, अणुभवसिद्धो विहिपराणं ॥२९२॥ ६/४८
तत्र पुनर्रव्यस्तवे वन्दनादौ वन्दनपूजासत्कारादौ देशविरत्यनुष्ठाने उचितसंवेगयोगतस्तद्व्यापारसम्पाद्यसंवेगसम्बन्धेन नियमादवश्यतया अस्ति खलु भावलेशोऽस्त्येवाध्यवसायलेशो नापह्रोतुं शक्यः अनुभवसिद्धः स्वसंवेदनसिद्धः विधिपराणां विधिनिष्ठानां विधिप्रवृत्तानामित्यर्थः ॥४९॥
कथं पुनर्भावलेशोऽनुभवसिद्ध इत्याह - दव्वत्थयारिहत्तं, सम्मं नाऊण भगवओ तम्मि । तह उ पयट्टताणं, तब्भावाणुमतिओ 'सो य ॥२९३॥ ६/४९
द्रव्यस्तवार्हत्वं द्रव्यस्तवयोग्यत्वं सम्यग्ज्ञात्वा भगवतः समग्रैश्वर्यादिसमन्वितस्य, तस्मिन् द्रव्यस्तवे। तह उत्ति तथैव प्रवर्तमानामुक्ताऽनतिक्रमेण तद्भावानुमतितो भावस्तवसद्भावानुमतेस्तद्भावप्रतिबन्धादित्यर्थः । स च प्रस्तुतो भावलेशो द्रव्यस्तवद्वारजन्यस्तस्मात् स्थितमेतत् परस्परानुगतमिदं द्वयम् ॥४९॥ (१. चेव अटी.)
अतः एव तत्कर्तव्यतानिर्देशार्थमाह - अलमेत्थ पसंगेणं, उचियत्तं अप्पणो मुणेऊणं । दो वि इमे कायव्वा, भवविरहत्थं बुहजणेणं ॥२९४॥ ६/५० __ अलमत्र प्रसङ्गेन वचनविस्तरेण उचितत्वं योग्यत्वमधिकारित्वापेक्षया आत्मनो मत्वा विज्ञाय द्वावपीमौ कर्तव्यौ द्रव्यस्तव-भावस्तवौ यथाविषयम् । भवविरहार्थं संसारविरहाय बुधजनेन यतिश्रावकजनेनेति ॥५०॥
॥द्रव्यस्तवपञ्चाशकं षष्ठं समाप्तम् ॥