________________
गाथा-४४-४७
६-स्तवनविधि-पञ्चाशकम् न कस्यचिन्निविषयत्वादिति भावः ॥४३॥
आह परः - नणु तत्थेव य मुणिणो, पुप्फादिनिवारणं फुडं अत्थि । अत्थि तयं सयकरणं पडुच्च नऽणुमोयणादी वि ॥२८८॥ ६/४४
नन्वित्यक्षमायाम् तत्रैव च शास्त्रे मुनेः साधोः पुष्पादिनिवारणं स्फुटमस्ति प्रकटं विद्यत । सूरिराह अस्ति तकवत् तत्पुष्पादिनिवारणं स्वयंकरणं प्रतीत्य नानुमोदनाद्यपि नानुमोदनाकारणे ॥४४॥
इहैवाभ्युच्चयमाह - सुव्वइ य वइररिसिणा, कारवणं पि हु अणुट्टियमिमस्स । वायगगंथेसु तहा, एयगया देसणा चेव ॥२८९॥ ६/४५
श्रूयते च शास्त्रे वज्ररिषिणा वज्रस्वामिना सम्पूर्णदशपूर्वविदा प्रवचनप्रसिद्धेन तीर्थकल्पेन कारणमपि करणप्रयोजनकव्यापाररूपम् । हु शब्दो वाक्यालङ्कारे, अनुष्ठितं विहितम्, अस्य द्रव्यस्तवस्य [द्रव्यस्तवहेतुः] पुष्पादि, प्रासुकोप[क]रणानयनेनाप्रमादाद्देवादिसंयमतत्त्वेन वाचकग्रन्थेषु तथा देवता रक्षणीय उमास्वातिवाचकविरचितधर्मरत्नावल्यादिश्च एतद्गता द्रव्यस्तवगता देशना चैव श्रूयते । यथोक्तं- "माल्यारोपण-धूप-प्रदीप-चितिचामराऊतपत्राणामहत्पूजासत्कारनिमित्तं त्यागजो [धनव्ययज इति धर्मः"[ ]
॥४५॥
दव्वत्थओ वि एवं, आणापरतंतभावलेसेण । समणुगओ च्चिय णेओऽहिगारिणो सुपरिसुद्धो त्ति ॥२९०॥ ६/४६
द्रव्यस्तवोऽप्येवमुक्तनीत्या आज्ञापरतन्त्र-भावलेशेनाज्ञापरतन्त्र्यं भावप्रधानत्वान्निर्देशस्य भावलेशश्च द्रव्यस्तवसमुत्थः सर्वविरतिगतमहाभावापेक्षया, तत एकवद्भावस्तेन समनुगत एव समन्वित एव सन्, ज्ञेया ज्ञातव्यः अधिकारिणो गृहिणः । सुपरिशुद्ध इति सुविशुद्धस्वरूपोऽन्यस्तु न तथाऽऽज्ञापारतन्त्र्यवैकल्यात् तथाविधकुशलव्यवसायाभावाच्चैतद्दोषविकलस्तु यथोदितः ॥४६॥
अत एवाह - लोगे सलाहणिज्जो, विसेसजोगाउ उन्नतिनिमित्तं । जो सासणस्स जायइ, सो णेओ सुपरिसुद्धो त्ति ॥२९१॥ ६/४७