________________
८८ ६-स्तवनविधि-पञ्चाशकम्
गाथा-४१-४३ साक्षात् [तु]स्वयं प्रवृत्तिमाश्रित्य कृत्स्नसंयमद्रव्यभावाभ्यां सर्वसंयमक्रियापरिणामाभ्याम्, क्रियया भावेन च सर्वसंयमो यतेः परिपालनीयत्वेन विहितः, तेन तदविरोधेन प्रवृत्तस्य । ना नैव अयमिष्टो द्रव्यस्तवः गम्यतेऽवसीयते तन्त्रस्थित्याऽऽगमनीत्या । किमेवमभिधीयत इत्याहभावप्रधाना हि उपसर्जनीकृतद्रव्यस्तवाः स्वयंकरणमङ्गीकृत्य यस्मान्मुनय इति साधवो भवन्ति। तेषां हि शास्त्रविहितो भावस्तव एव प्रधानस्तदविरोधी द्रव्यस्तवोऽप्यभिमतः सर्वज्ञवचनानुसारित्वेन यथाविषयमवबोधाद्, इतरथा सर्वज्ञबहुमानानुपपत्तेः, नत्वेकं सर्वज्ञोक्तत्वे सत्यभिमतमितरच्च नाभिमतमित्यस्ति सम्यग्दृशां विभागो, विभागकरणे सम्यग्दृष्टित्वानुपपत्तेः ॥४०॥
एएहितो अण्णे, जे धम्महिगारिणो उ तेसिं तु । सक्खं चिय विण्णेओ, भावंगतया जओ भणियं ॥२८५॥ ६/४१
एतेभ्यो मुनिभ्यः कृत्स्नसंयमव्यवस्थितेभ्यः अन्येऽपरे ये धर्माधिकारिणस्तु श्रावकाः तेषां तु तेषां पुनः साक्षादेव विज्ञेयो द्रव्यस्तवः स्वयंकरणेन भावाङ्गतया कुशलपरिणामहेतुतया यतो भणितमुक्तम्॥४१॥
किं तदुक्तमित्याह - अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणे, दव्वथए कूवदिटुंतो ॥२८६॥ ६/४२
अकृत्स्नप्रवृत्तकानां संयममधिकृत्याकृत्स्नं प्रवर्तन्ते ये तेषां विरताविरतानां देशविरतानाम् एष खल युक्तो द्रव्यस्तवः संसारप्रतनुकरणः प्राकृते पूर्वापरनिपातोऽतन्त्रमिति कृत्वा प्रतनुमल्पं संसारं करोतीति तथोच्यते द्रव्यस्तवे कूपदृष्टान्तो वर्णितः । यथा कूपे खन्यमाने तत्कालभाविनामन्यकालभाविनां पुरुषान्तरगतानां च परिश्रममलपिपासादीनां स्नान-पानाऽऽवगाहादिति तदुत्थसलिलप्रवाहादपगमो दृश्यते विवक्षितार्थसिद्धिश्च । एवमस्मिन्नपि द्रव्यस्तवे शास्त्रानुसारेण प्रवर्तमानानां तदुत्थशुभपरिणामादारम्भसमुत्थदोषापगमेनाभिषेधा [-लषिता]र्थसिद्धिरुपलभ्यते । अतः पूर्वसूरिभिः कूपदृष्टान्तः कृतः ॥४२॥
आह परः - सो खलु पुप्फाईओ, तत्थुत्तो न जिणभवणमाई वि । आदीसद्दा वुत्तो, तयभावे कस्स पुष्फादी ? ॥२८७॥ ६/४३
स खलु द्रव्यस्तवः पुष्पादिकस्तत्रोक्तः शास्त्र उक्तः न जिनभवनादिरपि । सूरिराह । आदिशब्दादुक्तःशास्त्रे प्रतिपादितः, तदभावे जिनभवनप्रतिमाद्यभावे कस्य पुष्पादिद्रव्यस्तवो