SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ८७ गाथा-३७-४० ६-स्तवनविधि-पञ्चाशकम् तत् तस्मात् तदपि जिनभवनकारणाद्यपि अनुमतमेवानुज्ञातमेव अप्रतिषेधाद्धेतोस्तन्त्रयुक्त्यागमनीत्या इति हेतोः । शेषाणामेव यतीनां अत्र द्रव्यस्तवे, अनुमोदनाद्यविरुद्धम्, आदिशब्दात्कारणग्रहः, देशनया साधुव्यस्तवं कारयति। फलनिर्देशेन प्रवर्तनात् । प्रवर्तकत्वमेव च द्रव्यस्तवप्रयोजककर्तृत्वम् । अनुमतिकारणे द्रव्यस्तवे न विरुद्धे यतेरपीत्यर्थः ॥३६॥ इतरश्च परस्परानुगतं द्रव्यभावस्तवस्वरूपमनुमोदनादि चाऽविरुद्धमित्याह - जं च चउद्धा भणिओ, विणओ उवयारिओ उ जो तत्थ । सो तित्थगरे नियमा, न होइ दव्वत्थयादण्णो ॥२८१॥ ६/३७ यच्च यस्मात् चतुर्धा चतुःप्रकारो ज्ञानदर्शनचारित्रोपचारभेदात् भणितो वर्णितो विनय औपचारिकस्त यस्तत्र चतुर्विधविनये स औपचारिकविनयः तीर्थकरे साक्षात्सर्वज्ञे तद्धि तेष्वेव [अर्हद्विषये - अटी.] नियमान्नियमेन न भवति द्रव्यस्तवादन्योऽपरः ॥३७॥ एयस्य उ संपाडणहेउं तह चेव वंदणाए उ । पूजणमादुच्चारणमुववन्नं होइ जतिणो वि ॥२८२॥ ६/३८ . एतस्य तु द्रव्यस्तवस्यैव सम्पादनहेतोः सम्पादननिमित्तम् । तथा चैव वन्दनायां तु चैत्यवन्दनायां पूजनाधुच्चारणं पूजनसत्कारोच्चारणम् उपपन्नं युक्तं भवति । यतेरपि भावस्तवव्यवस्थितस्यापि ॥३८॥ इहरा अणत्थगं तं, न य तदणुच्चारणेण सा भणिता । ता अभिसंधारणतो, संपाडणमिट्ठमेयस्स ॥२८३॥ ६/३९ इतरथाऽन्यथा अनर्थकं तत् पूजनाधुच्चारणं तदर्थाभावात्, पूजनसत्कारौ हि तद् उच्चारणस्यार्थको चेदनुमति-कारणाभ्यां नेष्यते, ततोऽभिधेयाभावान्निष्प्रयोजनं तदापद्यते । न च नैव तदनुच्चारणेन पूजाद्यनुच्चारणेन सा वन्दना भणिता प्रतिपादिता । यतेः तस्मादभिसन्धारणतोऽभिसन्धेर्विशिष्टेच्छारूपेणाभिसन्धिना सम्पादनमनुमतिकारणाभ्याम् इष्टमभिप्रेतम् एतस्य द्रव्यस्तवस्य ॥३९॥ ----- यद्येवं शास्त्रोक्तत्वादुपादेयरूपो द्रव्यस्तवः शुभपरिणामहेतुत्वाच्च भावस्तवहेतुस्तत्साक्षादेव स्वयं करणतः कस्मादयं [यतीनां] नेष्ट इत्याह - सक्खा उ कसिणसंजमदव्वाभावेहि नो अयं इट्ठो । गम्मति तंतठितीए, भावपहाणा हि मुणउ त्ति ॥२८४॥ ६/४०
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy