________________
८६
६- स्तवनविधि- पञ्चाशकम्
गाथा -३२-३६
न य भगवं अणुजाणति, जोगं मुक्खविगुणं कदाचिदपि । न य तयणुगुणो वि तओ, न बहुमतो होति अण्णेसिं ॥२७६॥ ६/३२
न च भगवास्तीर्थकरः अनुजानात्यनुमन्यते योगं व्यापारं मोक्षविगुणं मोक्षप्रतिकूलं कदाचिदपि सर्वदैव नानुजानातीत्यर्थः । न च तदनुगुणोऽपि सर्वज्ञाभिमतोऽपि मोक्षानुगुणो वा तको योगो न बहुमता भवत्यन्येषाम्, किन्तु बहुमत एवेष्ट एव ॥ ३२ ॥
इहैव भावार्थमाह -
जो चेव भावलेसो, सो चेव य भगवओ बहुमतो उ । न तओ विणेतरेणं ति अत्थओ सो वि एमेव ॥ २७७॥
६/३३
य एव भावलेशो द्रव्यस्तवसम्पाद्यः प्रहर्षातिशयः, स एव च भगवतो बहुमतस्तु आरम्भादिस्तु स्वयंव्यवस्थित एव तन्निवृत्तेरभावात् न तको भावलेशो विनेतरेण द्रव्यस्तवेन विना इति हेतो: अर्थतोऽर्थमाश्रित्य सोऽपि द्रव्यस्तव एवमेवानुमत एव वर्तते ॥३३॥
कुत इत्याह -
कज्जं इच्छंतेणं, अणंतरं कारणं पि इट्टं तु । जह आहारजतित्ति, इच्छंतेणेह आहारो ॥२७८॥
६/३४
कार्यमिच्छता फलं वाञ्छता अनन्तरं कारणमपि तज्जनकम् इष्टं तु इष्टमेव वर्तते । कारणाविनाभावित्वात्कार्यस्य, यथाहारजामाहारजनितां तृप्तिं प्रीणनक्रियाम् इच्छताभिलषता [इहलोके - अटी. ] आहार इष्टो भवतीति गम्यते ॥३४॥
अप्रतिषेधाच्चानुमतो द्रव्यस्तव इत्याह
जिणभवणकारणाइ वि, भरहादीणं न वारितं तेण । जह तेसिं चि कामा, सल्लविसाईहिं णाएहिं ॥ २७९ ॥
-
६/३५
जिनभवनकारणाद्यपि प्राक् प्रस्तुतं भरतादीनां न वारित न निषिद्धं तेन भगवता । यथा तेषामेव भरतादीनां कामाः कामभोगाः शल्यविषादिभिर्ज्ञातैः उदाहरणैः, यथोक्तम् -
सलंकामा विसं कामा, कामा आसीविसोवमा ।
संसार वड्डूमाणा कामा कामा दोग्गड़वड्डूणा [ ] ॥३५॥
ता तंपि अणुमयं चिय, अप्पडिसेहाओ तंतजुत्तीए । इय सेसाण वि एत्थं, अणुमोयणमाइ अविरुद्धं ॥ २८० ॥
६/३६