________________
६-स्तवनविधि-पञ्चाशकम्
जो वि हु दव्वत्थयभेओ अणुमोयणेण अस्थि ति । एयं च एत्थ णेयं, इय 'सुद्धं तंतजुत्तीए ॥ २७२॥ ६/२८
गाथा -२८-३१
कुत एतत्परस्परानुगतमित्याह -
-
८५
यतेरपि द्रव्यस्तवभेदो द्रव्यस्तवविशेषः कश्चिद् द्रव्यस्तव इत्यर्थः । अनुमोदनेन भगवत्पूजासन्दर्शनसमुल्लसत्प्रहर्षविशेषरूपानुमत्या अस्तीति विद्यत एवानुमोदनाजनित इति हेतोः । एतच्च स्वरूपम् अत्र ज्ञेयम् । द्रव्यस्तवभावस्तवयोरिति, शुद्धमेव शुद्धं परस्परानुगतत्वेन तन्त्रयुक्त्यागमनीत्या ॥२८॥ (१.सिद्धं-जे.)
तंतम्मि वंदना, पूयणसक्कारहेउ उस्सग्गो ।
जतिणो विहु निद्दिट्ठो, ते पुण दव्वत्थयसरूवे ॥२७३॥ ६/२९
तन्त्रे शास्त्रे वन्दनायां चैत्यवन्दनायां पूजनसत्कारहेतोः पूजनसत्कारनिमित्तम् उत्सर्गः कायोत्सर्गः । यतेरपि हु [हु शब्दोऽलङ्कृतौ अटी. ] निर्दिष्टः पठितः । ते पुनः जनसत्कर द्रव्यस्तवस्वरूपे । प्राकृतत्वाद्वा बहुवचनम् । तौ पुन: पूजन - सत्कारौ द्रव्यस्तवस्वरूपौ ॥२९॥
मल्लाइएहिं पूया, सक्कारो पवरवत्थमाईहिं ।
अण्णे विवज्जओ इह, दुहा वि दव्वत्थओ एत्थ ॥ २७४॥ ६/३०
माल्यादिभिः पूजा ग्रथिताग्रथितकुसुमैः। सत्कारः सत्क्रिया, प्रवरवस्त्रादिभिः । अन्ये विपर्यय इह पूजासत्कारस्वरूप इति मन्यन्ते द्विधाप्युभयपक्षेऽपि द्रव्यस्तवोऽत्र पूजासत्काररूपः ॥३०॥
ननु यतेः कथं द्रव्यस्तवभेदः ? अनुमोदनाद्वारेणास्तीत्युच्यते । कथञ्चिदारम्भरूपो ययं गृहस्थविधेयस्तदनुमोदने च सर्वविरतिक्षतिप्रसङ्गः । शेषारम्भानुमतिवदिति पराभिप्रायमा
शङ्क्याह -
ओसरणे बलिमाई, न चेह जं भगवया वि पडिसिद्धं । ता एस अणुण्णाओ, उचियाणं गम्मई तेण ॥ २७५॥
६/३१
अवसरणे समवसरणे देवनिष्पादिते, बल्यादि समयप्रसिद्धमेव । न चेह यद् भगवतापि प्रतिषिद्ध निराकृतम् । तत् तस्माद् एष द्रव्यस्तवोः अनुज्ञातोऽनुमतः उचितानामधिकारिणां गृहस्थानां राजामात्यादीनां गम्यते अवसीयते तेन भगवता ॥३१॥