________________
८४
६-स्तवनविधि-पञ्चाशकम् गाथा-२५-२७ सर्वज्ञे विषयभूते। उचितप्रवृत्तिस्तदाज्ञासम्पादनरूपा द्रव्यस्तवेऽपि हि प्रतिमापूजादिरूपे भगवदाजैव निबन्धनम्, तत्प्रामाण्येन तत्प्रवृत्तेः अधिकारिवशात् तद्व्यवस्थापनात्, शास्त्रमन्तरेण प्रवृत्तेरप्यप्रवृत्तिकल्पत्वात् हिंसाद्यारम्भसम्भवेऽपि शास्त्रोक्तत्वेन तत्करणात्, शास्त्रादेवाऽऽयव्यय-बहुत्वाल्पत्वसिद्धेः गरीयान् भावस्तवः, तदपेक्षया सम्पूर्णाज्ञाकरण सर्वविरतिपरिपालनम् कृतकृत्ये भगवति, हन्तोचितं तु वर्तते । न हि भगवति कृतकृत्ये परमार्थेन किञ्चित्कर्तव्यमस्ति । केवलमधिकारित्ववशाद् भावस्तव एव विधेयस्तदसामर्थ्य द्रव्यस्तवः । सकलभावस्तवकरणे द्रव्यस्तवस्य तदन्तर्गतत्वेन सम्पादितत्वात् ॥२४॥
णेयं च भावसाहुं, विहाय अण्णो चएति काउं जे। सम्मं तग्गुणनाणाभावा तह कम्मदोसा य ॥२६९॥ ६/२५ -
'न' इति प्रतिषेधे इदं च सम्पूर्णाज्ञाकरणं भावसाधुं विहायागमोक्तयतिं विहायान्योऽपरः शक्नोति कतं नैव शक्नोतीत्यर्थः । जे इति निपातोऽवधारणार्थः । सम्यक्तद्गुणज्ञानाभावादवैपरीत्येनाऽऽज्ञागुणपरिज्ञानाभावात् । न हि यथा भावयतिराज्ञागुणान् वेत्ति तथाऽन्यः तथा कर्मदोषाच्च कथञ्चित्परिज्ञानसंभवे (आज्ञाकरणगुणपरिज्ञानेऽपि । अटी.) चारित्रमोहनीयकर्मदोषाच्च ॥२५॥
एत्तो च्चिय फुल्लामिसथुइपडिवत्तिपूयमज्झम्मि ।
चरिमा गरुई इट्ठा, अण्णेहि वि निच्चभावाओ ॥२७०॥ ६/२६ ___ अत एव संपूर्णाज्ञाकरणस्य भावसाधुसाध्यत्वादेव। 'फुल्लाऽऽमिसथुत्तीपडिवत्तिपूयमज्झम्मि' पुष्पामिष-स्तुतिप्रतिपत्तिपूजामध्ये पुष्पाणि जात्यादीनि, उपलक्षणत्वाद् वस्त्ररत्नाद्यन्तर्भावः । आमिषमाहारः, उपलक्षणत्वात् पत्रफलपरिग्रहः । स्तुतिर्वाचा गुणकीर्तनम् । प्रतिपत्तिरनुष्ठानप्रतिज्ञाऽहिंसावैराग्यलक्षणा । एता एव पूजाः । तन्मध्ये चरमा प्रतिपत्तिः पूजा गुर्वा मान्या बहुमानविषयत्वेन इष्टा हि मताऽन्यैरपि ग्रन्थकारः नित्यभावाद् ध्रुवभावेन सर्वदैव भावादिति यावत् । शेषास्तु कादाचित्क्यः भवन्ति ॥२६॥
दव्वत्थयभावत्थयरूवं एयमिह होइ दट्ठव्वं । अण्णोऽण्णसमणुविद्धं, निच्छयतो भणियविसयं तु ॥२७१॥ ६/२७
द्रव्यस्तवभावस्तवरूपमेतत्स्वरूपम् । एतदिह प्रागुक्तं भवति द्रष्टव्यं विज्ञेयम् । अन्योन्यसमनुविद्ध परस्परानुगतं निश्चयतो निश्चयेन शास्त्रपरिणामरूपेण परस्परवियुक्तत्वेऽनयोः सम्यक् शास्त्रपरिणतेः भणितविषयं तु प्रतिपादितविषयमेव स्वरूपं द्रष्टव्यम् ॥२७॥