SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ गाथा-२१-२४ ६-स्तवनविधि-पञ्चाशकम् सर्वप्रकारैः स तु यतियोगः ॥२०॥ दृष्टान्तद्वारेणानयोश्चैव विशेषप्रतिपादनायाह - असुहतरंडुत्तरणप्पाओ दव्वत्थओऽसमत्तो य । नइमाइसु इयरो पुण, समत्तबाहुत्तरणकप्पो ॥२६५॥ ६/२१ अशुभतरकाण्डोत्तरणप्रायः काण्डकोपचितशाल्मली तरुकाण्डोत्तरणतुल्यः द्रव्यस्तवोऽसमाप्तश्च, द्रव्यस्तवादेव न मोक्षनिष्पत्तेः । नद्यादिषु नदीहृदप्रभृतिषु । इतरः पुनर्भावस्तवः समाप्तः स्वयमेव परिपूर्णो वा बाहूत्तरणकल्पोऽशुभतरकाण्डादिपरिहारेण न हि भावस्तवसम्पन्नोऽन्यतरकाण्डं समीहते, तस्यैव स्वकार्यनिवर्तनक्षमत्वात् ॥२१॥ दृष्टान्तभूयस्त्वदिगुपदर्शनार्थमाह - कडुओसहाइजोगा, मंथररोगसमसन्निभो वा वि । पढमो विणोसहेणं, तक्खयतुल्लो च बिइओ उ ॥२६६॥ ६/२२ कटुकौषधादियोगाद्, आदिशब्दात् शिरावेधक्षारपातादिग्रहः । मन्थररोगसमसन्निभो वापि दीर्घकाल-सम्पात्यरोगप्रशमतुल्यः प्रथमो द्रव्यस्तवः, विनौषधेन तत् क्षयतुल्यश्च रोगक्षयतुल्यः द्वितीयस्त भावस्तवः। द्रव्यस्तवाद्धि न सर्वथा रोगोच्छेदः । तेन रोगप्रशमसाधर्म्यमभिहितम्, भावस्तवस्तु सर्वथा रोगक्षयकारीत्येवमभिधानम् ॥२२॥ द्रव्यस्तवजन्यफलविशेषप्रतिपादनायाह - पढमाउ कुसलबंधो, तस्स विवागेण सुगतिमादीया । तत्तो परंपराए, बितिओ वि हु होइ कालेण ॥२६७॥ ६/२३ प्रथमा द्रव्यस्तवात् कुशलबन्धः पुण्यबन्धः तस्य विपाकेनानुभावेन फलप्रदानसामर्थ्येन। सुगत्यादया देव-मनुजगति-सम्पत्ति-सौभाग्यादयः सम्भवन्तीति शेषः ततो द्रव्यस्तवात् परम्परयाऽविच्छिनसन्तानरूपया द्वितीयोऽपि भावस्तवोऽपि हुर्वाक्यालङ्कारे भवति जायते कालेन कियतापि व्यतिक्रान्तेन कालस्यापि तथाभव्यत्वपरिपाकहेतुत्वादेवमभिधानम् ॥२३॥ कथं पुनर्द्रव्यस्तवाद् भावस्तवो गरीयानित्याशङ्क्याह - चरणपडिवत्तिरूवो, थोयव्वोचियपवित्तिओ गुरुओ। संपुण्णाणाकरणं, कयकिच्चे हंदि उचियं तु ॥२६८॥ ६/२४ चरणप्रतिपत्तिरूपश्चरणाभ्युपगमरूपः । स्तोतव्योचितप्रवृत्तितो गुरुकः, स्तोतव्ये भगवति
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy