________________
८० ६-स्तवनविधि-पञ्चाशकम्
गाथा-९-१२ उचितं खलूचितमेव कर्तव्यं विधेयं सर्वत्र क्षेत्रादौ सदा सर्वकालम् । नरेण पुरुषेण बुद्धिमता विवेकिना इति, फलसिद्धिरेवं कार्यनिष्पत्तिः नियमान्नियमेन । एषैव च भवत्याज्ञा भवत्युचित करणरूपा । न ह्यनुचितानुष्ठानप्रवृत्तो भगवदाज्ञामाराधयति ॥८॥
जं पुण एयविउत्तं, एगंतेणेव भावसुण्णं ति। --- तं विसयम्मि वि न तओ, भावथयाहेउओ णेयं ॥२५३॥ ६/९
यत्पुनरेतद्वियुक्तमाज्ञाराधनावियुक्तम्, एकान्तेनैवाज्ञानुसार(सारित्व)विरहेण स्वाग्रहप्रवृत्त्या गुणदोषालोचननिरपेक्षया भावशून्यमिति क्षायोपशमिकभावशून्यमौदयिकभावप्रवृत्त्या ज्ञानो [ज्ञानावरणीयकर्मो]पशमादिविरहात् तद् अनुष्छन, विषयेऽपि वीतरागादौ तको न द्रव्यस्तवो भावस्तवाहेतुतो भावस्तवाकारणत्वेन भावप्रधानत्वान्निर्देशस्यैवं [ज्ञेयम्] अवगन्तव्यम् ॥९॥
कथं पुनः द्रव्यस्तवो भावस्तवहेतुरिव सन्, नाऽभिमतः इत्याह - .. समयम्मि दव्वसद्दो, पायं जं जोगयाए रूढो त्ति । निरुवचरितो उ बहुहा, पओगभेओवलंभाओ ॥२५४॥ ६/१०
समये सिद्धान्ते द्रव्यशब्दो द्रव्यार्थाभिधायी ध्वनिः प्रायो बाहुल्येन यद् यस्माद् योग्यतायां योग्यतावाचित्वे रूढः प्रसिद्धिमुपगतः इति हेतोः निरूपचरितस्तूपचरितानिष्क्रान्तो निरूपचरितोऽनुपचरित इत्यर्थः बहुधाऽनेकधा प्रयोगभेदोपलम्भात् प्रयुक्तिविशेषदर्शनात् ॥१०॥
एतदेव निदर्शनद्वारेण आह - मिउपिंडो दव्वघडो, सुसावगो तह य दव्वसाहु त्ति । साहू य दव्वदेवो, एमादि सुते जओ भणियं ॥२५५॥ ६/११
मृत्पिण्डो द्रव्यघटो घटपरिणामहेतुत्वात् तस्यैव तथाभवनात् । सुश्रावकः तथा च द्रव्यसाधुरिति सुन्दरदेशविरतिपरिणामभावितस्य साधुपरिणामभवनात् प्रत्यासत्त्या देशविरतिकण्डकेभ्यः सर्वविरतिकण्डकप्राप्तेः । बाहुल्यापेक्षया तस्यैव तथावृत्तेः । साधुश्च द्रव्यदेवो देवायुर्निबन्धभाजनत्वेन । एवमादि, आदिशब्दाद् द्रव्यनारकपरिग्रहः । श्रुते यतो भणितं द्रव्यशब्दमाश्रित्य ॥११॥
प्रस्तुतद्रव्यस्तवस्वरूपनिगमनायाह - ता भावत्थयहेऊ, जो सो दव्वत्थओ इहं इट्टो । जो उ न एवंभूओ, स अप्पहाणो परं होति ॥२५६॥ ६/१२