________________
गाथा-४-८
६- स्तवनविधि-पञ्चाशकम्
कथं पुनरेतत् तद्धेतुता प्रतिपद्यते इत्याह
विहियाणुाणमिणं ति एवमेयं सया करेंताणं ।
होइ चरणस्स हेऊ, नो इहलोगादवेक्खाए ॥ २४८ ॥ ६/४
-
विहितानुष्ठानं पूर्वपुरुषकृतसुन्दरानुष्ठानम् इदमित्येवमागमाकाराय बुद्ध्या । एवमेतज्जिनभवनादि सदा कुर्वतां । भवति चरण [ स्य ] चारित्रपरिणामस्य हेतुः । व्यवच्छेद्यमाह - नो नैव इहलोकाद्यपेक्षयाऽस्मदनुष्ठानादिहलोके मनुष्यभवे, आदिशब्दात् परलोके देवस्य भवे वा ममेदं फलं भविष्यतीति, एतत्परिहारेण चरणस्य हेतुः ॥४॥
एवं चिय भावथए, आणाआराहणाउ रागोऽवि ।
जं
६/५
पुण इयविवरीयं, तं दव्वथओ वि नो होइ ॥ २४९॥ एवमेवोक्तयैव बुद्ध्या, भावस्तवे भावस्तवविषये । आज्ञाराधनात् आगमाराधनात् रागोऽप्यनुरागोऽपि बहुमान इत्यर्थः । यत्पुनर्जिनभवनादि एतद्विपरीतं विहितानुष्ठानबुद्धिविपरीतम् । तद् द्रव्यस्तवोऽपि न भवति भावस्तवाऽकारणत्वात् ॥५॥
भावे अतिप्पसंगो, आणाविवरीयमेव जं किंचि । इह चित्ताणुट्ठाणं तं दव्वथओ भवे सव्वं ॥२५०॥
"
७९
६/६
भावे द्रव्यस्वस्य अतिप्रसङ्गोऽतिव्याप्तिरनिष्टापत्तिरित्यर्थः । आज्ञाविपरीतमेवागमविपर्यस्तमेव तन्निराकृतमित्यर्थः । यत्किञ्चिदनियतस्वरूपम् इह चित्रानुष्ठानं हिंसादि तद् द्रव्यस्तवो भवेत् सर्वमविशेषेण ॥६॥
जं वीयरागगामी, अह तं नणु गरहियं पि हु स एवं ।
सिय उचियमेव जं तं आणाआराहणा एवं ॥ २५९ ॥ ६/७
-
यद्वीतरागगामि यद्वीतरागविषयम्, अथ तदनुष्ठानं हिंसादि तद् द्रव्यस्तवो भवतीति सम्बध्यत । ननु गर्हितमपि तन्निन्दादिः स द्रव्यस्तव एवं प्राप्नोति । स्यादेतत्परमतमाशङ्कते । उचितमेव यदनुष्ठानं जिनपूजादि तद् द्रव्यस्तवः आज्ञाऽऽराधनागमाराधना । एवं द्रव्यस्तवः प्राप्तः, स चास्माभिरिष्ट एव ॥७॥
पूर्वोक्तमेव व्यनक्ति
उचियं खलु कायव्वं, सव्वत्थ सया नरेण बुद्धिमता ।
इय फलसिद्धी नियमा, एस च्चिय होइ आण त्ति ॥ २५२ ॥ ६/८