________________
॥ षष्ठं स्तवनविधि-पञ्चाशकम् ॥
पूजानन्तरं प्रत्यासत्त्या प्रत्याख्यानमभिहितं पुनः पूजाविशेषरूपत्वात् द्रव्य-भावस्तवयोः स्वरूपनिर्णयार्थमिदमाह -
नमिऊण जिणं वीरं, तिलोगपुज्जं समासओ वोच्छं। थयविहिमागमसुद्धं, सपरेसिमणुग्गहट्ठाए ॥२४५॥ ६/१
नत्वा मनो-वाक्-कायव्यापारसमानकर्तृकत्वमुपदर्शयन् तान्तेन 'वक्ष्ये' क्रियापदमभिसम्बध्नाति । नमस्कृत्य जिनं जितरागादिदोषसमुदयं वीर महाविक्रमं त्रिलोकपूज्यं देवासुरमनुजपूजनीयं समासतः सङ्क्षपेण वक्ष्येऽभिधास्ये। स्तवविधि स्तवप्रकारम् आगमशुद्धं सम्यक्परिच्छेदावदातं स्वपरयोनुग्रहाथमनुग्रहकाम्यया ॥१॥
स्तवविधिमेवाह - दव्वे भावे य थओ, दव्वे भावथयरागओ सम्म । जिणभवणादिविहाणं, भावथओ चरणपडिवत्ती ॥२४६॥ ६/२
द्रव्ये भावे च स्तवः पूजाविशेषो द्रव्ये द्रव्यविषयः स्तवः । किमुच्यत ? इत्याहभावस्तवरागता भावस्तवानुरागात् सर्वविरतिबहुमानात् । सम्यगवैपरीत्येन जिनभवनादिविधानम्, आदिशब्दाद् बिबादिपरिग्रहः । भावस्तवः चरणप्रतिपत्तिः सर्वविरत्यभ्युपगमस्तत्प्रतिज्ञेति यावत् ॥२॥
द्रव्यस्तवस्वरूपप्रतिपिपादयिषयाऽऽह - जिणभवणबिंबठावणजत्तापूयादि सुत्तओ विहिणा । दव्वत्थउ त्ति णेयं, भावत्थयकारणत्तेण ॥२४७॥ ६/३
जिनभवनं सिद्धायतनम्, बिम्बस्थापनं प्रतिमाप्रतिष्ठा, यात्रा जिनमहोत्सवः पूजा पुष्पवस्त्रादिभिः । जिनभवन-बिम्बस्थापन-यात्रा-पूजादि-समाहारस्यैकत्वादेकवचनम् । सूत्रतः सूत्रादागमाद् विधिना कर्तव्योपदेशरूपेण द्रव्यस्तव इति ज्ञेयं ज्ञातव्यं । भावस्तवकारणत्वेन सर्वविरतिपरिणामहेतुत्वेन, तदेव ह्यागमात् क्रियमाणं सर्वविरतिहेतुतां प्रतिपद्यते । तदनुरागत एव तत्र प्रवृत्तेः, न तन्निरपेक्षः परिणामो द्रव्यस्तवो नाम ॥३।।