________________
गाथा - १३-१६
६- स्तवनविधि-पञ्चाशकम्
८१
तत् तस्माद् भावस्तवहेतुर्भावस्तवकारणं परम्परया । यः द्रव्यस्तवः हेतो [इष्टो ] ऽभिमतः, यस्तु यः पुनर्नैवम्भूतो योग्यताविकलत्वेन, सोऽप्रधानो द्रव्यस्तवः परं केवलं भवति । 'अप्रधानवृत्तित्वाद् द्रव्यशब्दस्य ॥१२॥
2
अप्पाहण्णे वि इहं, कत्थइ दिट्ठो उ दव्वसहोति । अंगारमद्दगो जह, दव्वायरिओ सदाऽभव्व ॥ २५७॥
६/१३
अप्रधानेऽपीह शास्त्रे क्वचित् प्रदेशे दृष्टस्तु द्रव्यशब्द इति हेतोः । अङ्गारमर्दको यथा द्रव्याचार्योऽप्रधानाचार्यः सदा सर्वदा अभव्योऽभव्यजीवस्वरूपो भव्यराशेरूत्तीर्णत्वेन ॥१३॥
अप्पाहण्णा एवं, इमस्स दव्वत्थवत्तमविरुद्धं ।
आणाबज्झत्तणओ, न होइ मोक्खंगया नवरं ॥ २५८ ॥ ६/१४
अप्राधान्याद् हेतोः एवमस्यागमनिरपेक्षद्रव्यस्तवस्य प्रागुक्तदव्यस्तवत्वमप्रधानस्तवत्वम् अविरुद्धमविरोधवत् । आज्ञाबाह्यत्वादागमविकलत्वात् न भवति मोक्षाङ्गता मोक्षहेतुता । नवरं केवलमागमोक्तस्यैव मोक्षाङ्गत्वाभ्युपगमात् ॥१४॥
तत्किमस्मादप्रधानद्रव्यस्तवात् किञ्चित् फलं नास्तीत्याशङ्क्याह -
भोगादिफलविसेसो, उ अत्थि एत्तो वि विसयभेदेण । तुच्छो उ तो जम्हा, हवति पगारंतरेणावि ॥२५९॥
६/१५
भोगादिफलविशेषस्तु भोगोपभोगसम्पत्तिप्रभृतिफलभेदस्तु, अस्ति विद्यते सम्भवति अतोऽप्यप्रधानद्रव्यस्तवाद् विषयभेदेन वीतरागसर्वज्ञादिपूजारूपेण तुच्छस्तु फलमाश्रित्य स्वल्पस्तु वर्तते । तकः स भोगादिफलविशेषः यस्माद् भवति प्रकारान्तरेणाप्यकामनिर्जरा-बालतपोऽनुकम्पादिना ॥ १५॥
ननु च द्रव्यस्तवयोः [= प्रधानाऽप्रधानयोः ] शास्त्रोक्तत्वेन शुभपरिणामहेतुत्वे समाने सति कस्मादयं [आज्ञाप्रधान द्रव्यस्तवः ] भावस्तव एव न भवतीत्येतदाशङ्क्याह - उचियाणुट्ठाणाओ, विचित्तजड़जोगतुल्ल मो एस । जंता कह दव्वत्थओ ? तद्दारेणऽप्पभावाओ ॥ २६०॥
६/१६
उचितानुष्ठानाच्च स्वभूमिकायोग्यविहितानुष्ठानरूपत्वाद् विचित्रयतियोग्य[ ग]तुल्य एव एष वर्तते ['तुल्ल मा' तुल्यः, मकारोऽत्र प्राकृतशैलीभवः - अटी. ] । स्वाध्यायध्यानादियतिव्यापारसमानतया तद्वदागमविहितत्वादेवायं विधीयते । यद् यस्मात् [ तत् तस्मात् - अटी. ] कथं