________________
गाथा-४४-४६
५- प्रत्याख्यानविधि-पञ्चाशकम्
अनुबन्धभावे च विधिसमायुक्तमित्युक्तम् [ ५-४ गाथायाम्] तत्प्रकटनायाह भोत्तूणमुचियजोगं, अणवरयं जो करेइ अव्वहिओ । नियभूमिगाइ सरिसं एत्थं अणुबंधभावविही ॥ २३८ ॥
५/४४
भुक्त्वा प्रत्याख्यानपरिपूर्तेरनन्तरम्, उचितयोगमुचितव्यापारं स्वाध्यायध्यानादिकम् । अनवरतं सततं यः करात्यव्यथितोऽपीडित एव विधत्ते । निजभूमिकायाः सदृशं स्वभूमिकानुगतम्, अत्र प्रक्रमे। अनुबन्धभावविधिरयं कुशलप्रवाहाविच्छेदभावविधिरिह च यः करोत्युचितयोगमित्य भिधानेऽपि न वाक्यपरिपूर्णता, तेनार्थात्तस्येति गम्यते । तस्यायमनुभावयोर्विधिः । परमार्थतः सातत्येन तत्प्रत्याख्यानमेवमनुपालितं भवति यदि भोजनानन्तरमुचितयोगं स्वाध्यायादिकं विधत्त । गुरूपाध्याय - प्र य - प्रवर्ति- स्थविर - गीतार्थ-साधु-श्रावकयोग्यम्, अन्यथा भोजनस्याऽकिञ्चित्करत्व-प्रसक्तेः । तत्त्वेवमर्थमा श्रीयते धर्मार्थिभिर्यथा तेनोपबृंहितानां विशिष्टगुणलाभ:, तदभावे तु भोजनमभोजनमेवातत्फलत्वात् स्यात् । तस्मादनुबन्धमिच्छताऽवश्यमेवोचितयोगो विधेयो भावविधिसमा - युक्तत्वमपि प्रत्याख्यानस्यानुबन्धस्वरूपप्रदर्शनेनैवावेदितं द्रष्टव्यम् । भावप्रधानं ह्येवं त्रिविधमेव तद् भवति ततस्तत्प्रतिपादनेनैव सर्वत्र भाव उपलक्षितो भवति ॥ ४४ ॥
७५
पुरुषभूमिकापेक्षया देशकालौचित्यापेक्षया च स्वाध्यायादिपरिहारेणापि व्यापारान्तरस्य निर्जराहेतुत्वमुपदर्शयन्नाह -
गुरुआ सेणं वा, जोगंतरगं पि तदधिगं तमिह । 'गुरुआणाभंगम्मी, सव्वेऽणत्था जओ भणितं ॥२३९॥ ५/४५
गुर्वादेशेन वा सर्व एव गौरवार्हा गुरुत्वात् प्रन्य (प्रधान) स्थानीयास्तदादेशेन तदाज्ञया योगान्तरमपि स्वाध्यायादिवृद्धिहेतुं वस्त्रपात्रपरिकर्मरूपं करोतीति पूर्वेण सम्बन्ध: । तदधिकं ततः स्वाध्यायादिरधिकं तत्काले तदिह योगान्तरं वर्तते । गुरुभिरादिष्टमन्यदपि योगान्तरं करोत्येवम् । तेनाप्यनुबन्धशुद्धताप्रत्याख्यानस्य स्वाध्यायादिवत् तस्याऽपि कर्मक्षयफलत्वात् । गुर्वाज्ञाप्रतिपालनमेव च सर्वत्र कर्मक्षयफलम् । यतो गुर्वाज्ञाभङ्गे गुर्वादेशान्यथाकरणे सर्वेऽनर्था सम्भवतीि दृश्यम्, प्रत्युक्तत्वाद्, यतो भणितमेतदागमान्तरे ॥ ४५ ॥ ( १ . गुरुआणाभंगम्मि य - शा . )
तदेवाह -
छट्टुट्टमदसमदुवालसेहिं मासद्धमासखमणेहिं । अकरेंतो गुरुवयणं, अनंतसंसारिओ होति ॥ २४०॥
५/४६