________________
५-प्रत्याख्यानविधि-पञ्चाशकम्
गाथा -४६-४८
षष्ठाष्टमदशमद्वादशैः समयोक्तैः तपोविशेषैः मासार्धमासक्षपणैश्च । व्यक्तिबहुत्वाद् बहुवचनम् । एतैर्युक्तोऽपीति गम्यते । अकुर्वन् गुरुवचनमाज्ञाभङ्गेन अनन्तसांसारिको भवति, भूयांसं संसारं निर्वर्तयतीत्यर्थः ॥४६॥ भावप्राधान्येन किञ्चिदुपदिशन्नाह
७६
-
बज्झाभावेऽवि इमं, पच्चक्खंतस्स गुणकरं चेव । आसवनिरोहभावा, आणाआराहणाओ य ॥२४१ ॥
५/४७
बाह्याभावेऽपि आहारविषयविशिष्टपदार्थाभावेऽपि, सामान्येन वा धनधान्याद्यभावे अपीदं प्रत्याख्यानं प्रत्याचक्षाणस्य प्रत्याख्यातुः गुणकरं चैव गुणकरणशीलमेव भावविशुद्धहेतुत्वेन, 'आश्रवनिरोधभावाद्धेतोर्हिसाद्याश्रवद्वारनिवृत्तिसद्भावात् । [आदिपदेन अनुबन्धर्हिसा ज्ञेया ] । आज्ञाराधनातश्चाज्ञा भागवतीशास्त्ररूपा तत्परिपालनातश्च । आश्रवनिरोधो हि स्वसंवेदनेनानुभूयत । सत्स्वसत्सु वा बाह्यपदार्थेषु आज्ञाविराधनापि शब्दप्रत्याख्येयविषयत्वेन प्रसिद्धाः, अन्यथा हिन सर्वविषयं प्रत्याख्यानमाद्रियते । यान्येव स्वाधीनानि वस्तूनि तेष्वेव प्रत्याख्यानादरो भवेत् । सामान्येन च सर्वतोऽपि विरतिः श्रूयते जिनागमे तस्मान्न स्वाधीनमात्रविषयमेतत् ॥४७॥ अस्यैव समर्थनायाह -
न य एत्थं एगंतो, सगडाहरणादि एत्थ दिट्टंतो ।
संतं पि नासइ लहुं, होइ असतं पि एमेव ॥२४२॥ ५ / ४८
न चात्राप्येकान्तो यदुत बाह्यस्य सद्भाव एव । सद्भाव एवैकान्तेन शकटोदाहरणाद्यत्र दृष्टान्तस्तदुदाहरणमेवं श्रूयते - केनचित् ब्राह्मणेन नानाविधप्रत्याख्यानग्रहणे गृहस्थैः क्रियमाणेऽसम्भवविषयत्वेन धर्मफलमुपहास्यबुद्धिविषयं मन्यमानेन । यद्यसत्यपि वस्तुनि प्रत्याख्याये नियमं कुर्वतां धर्मः सम्पद्यते । ततो मम शकटभक्षणप्रत्याख्यानं भवन्नीत्याऽस्त्विति गृहीतम्, तस्य चान्तराले बहुभिर्वर्षैरतीतैः । कदाचित् कान्तारोत्तीर्णस्यातिबुभुक्षितस्य कदाचित् राजपुत्र्या समुत्सवननिमित्तं ब्राह्मणमन्वेषमाणया पक्वान्नीकृतशकटं भोजनपात्र्यां न्यस्तम् । ततस्तद् दृष्ट्वा स चिन्तयामास साधूक्तं साधुभिः सर्वस्यापि वस्तुनः सम्भवोऽस्तीति सविषयमेव सर्वं प्रत्याख्यानम् । तदिदमनुप्राप्तं कथमहं स्ववाक्प्रतिज्ञाया लोपं करिष्यामीति परिहृतवान् तत्सम्बोधनार्थं च स्ववार्तां कथितवानिति सङ्क्षेपतो दृष्टान्तः । एतदेव स्फुटीकरोति सदपि विद्यमानमपि वस्तु स्वगृहादौ नश्यत्यपैति भाग्यविपर्ययेण, [ लघु शीघ्रम् अटी. ] भवत्यसदपि पूर्वमविद्यमानमपि एवमेव पुण्योदयेन, तस्मान्नात्रैकान्तः ॥४८॥