________________
७४
५- प्रत्याख्यानविधि-पञ्चाशकम्
गाथा -४२-४३
एवं भावसाधूनां अङ्गीकृत्य स्वयंपालनोक्ता सह दानोपदेशाभ्याम्, अधुना श्रावकानुररीकृत्याहएवमिह सावगाण वि, दाणुवएसादि उचियमो णेयं । सेसम्म वि एस विही, तुच्छस्स दिसादवेक्खाए ॥२३६॥ ५ / ४२
एवमिह प्रत्याख्यानकरणे श्रावकाणामपि सम्यग्दृष्ट्यादीनां दानोपदेशादिशब्दात् प्रोत्साहनादिग्रहः । उचितमेव ज्ञेयमवबोद्धव्यम् । शेषेऽप्याहारप्रत्याख्यानाधिकारादन्यस्मिन् दानोपदेशादौ । वस्त्रादिविषये एष विधिः वक्ष्यमाणः तुच्छस्य विभवमाश्रित्य दिगाद्यपेक्षया दानोपदेशादीति वर्तते । दिश्यन्ते तामिति दिग् गच्छोऽभिधीयते । आदिशब्दात्कुलगणपरिग्रहः । वस्त्रादिदाने हि निर्विभवस्य दिगाद्यपेक्षा, महाधनसम्पन्नस्य पुनरुदाराशयस्य न काचिदियम् ॥
I
यतः -
सड्डेणं सति विभवे, साहूणं वत्थमाइ दायव्वं । गुणवंताणऽविसेसा तुच्छस्स दिसादवेक्खाए ॥
[ प्रत्याख्यानस्वरूपं गाथा - २६६ ] प्रकटोऽयमागमः ॥४२॥
एष विधिरित्यस्य विवरणायाह -
संतेयरलद्धिजुएयरादिभावेसु होइ तुल्लेसु ।
दाणं 'दिसाइभेए, तीए देतस्स आणादी || २३७॥
५/४३
एकस्य सद्वस्त्रादि, अपरस्य त्वसदविद्यमानम् । एको लब्धियुक्तः साधुरसदपि लब्धियुक्तत्वाल्लभते । इतरस्त्वलब्धियुतो न लब्धिसम्पन्नः । आदिशब्दात् क्लेशाऽक्लेशस्वपक्षपरपक्ष लब्धियुक्तत्वपरिग्रहः । एतदादिभावेषु साधुगतविशेषेषु भवति विधेयतया, तुल्येषु सत्सु दानं वितरणं प्राज्ञस्य दातुरधिकारिणश्च दिगाद्यभेदे सति न दिगाद्यपेक्षया, साधुगतविशेषेषु सत्सु, यत्र यत्र धर्मं प्रत्यनिर्वाह्ये धर्माधिकारिणस्तत्र तत्र दानं प्रवर्तयितव्यम् । धर्मक्षतिमनपेक्ष्य तया दिगाद्यपेक्षया' ऽददतः सतः । आज्ञादयो दोषाः आज्ञाभङ्ग, अनवस्था, मिथ्यात्व, विराधनालक्षणाः समयोक्ताः । दानधर्माधिकारी चायं -
[१. अथ तुल्येऽपिभावे दिशमतिक्रम्य ददतः किंस्यादित्याह तया दिशा । अददतोऽप्रयच्छता । आज्ञादय... दोषा भवन्ति । 'दाणं दिसाए 'त्ति पाठान्तरं । तत्र तुल्येषूक्तभावेषु दानं दिशा देयं भवति, अटी. ] ( १ . दिसाए. अटी.)
गुरुणाऽणुण्णायभरो णाओ वज्जियधणो य एयस्स ।
दायाऽतुच्छपरियणवग्गो सम्मं दयालू य ॥ [ विंशतिर्विंशिका गाथा - १३६ ] ॥४३॥