________________
५०
अध्यात्मबिन्दुः
[द्वितीया कर्तेति क्रियाभ्रमः । क्रियाया भ्रमरूपत्वात् निश्चयनयदृष्ट्यात्मनः कर्तृत्वमपि भ्रान्तस्वरूपमेवेति तात्पर्यम् ॥१४॥
अथ आवारकत्वेनाऽऽत्मस्वभावलाभप्रतिबन्धकयोः पुण्यपापयो: कथाया वृथात्वं प्रकटीकुर्वन्नाह
बहिष्पदार्थेष्वासक्तं, यथा ज्ञानं विवर्तते ।
तथैवान्तर्विवर्तेत, का कथा पुण्यपापयोः ॥१५॥ पद्मप्रभा० बहिष्पदार्थे 'वेति बाह्यभूतेषु पदार्थेष्वात्मातिरिक्तवस्तुषु आसक्तं'अनुरक्तं 'यथा'येन प्रकारेण 'ज्ञानं विवर्तते' प्रवृत्तिशीलं भवति, अर्थात् आभासिकं सुखं दुःखं चानुभवति तथैव' तेनैव प्रकारेण यदि अन्तर्विवर्तेत' अन्तर्मुखेन प्रवृत्तिशीलं भवेत्, बहिर्मुखेन वर्तमानं ज्ञानं यदि बहिर्मुखतां तिरस्कृत्य अन्तर्मुखेन प्रवृत्तिशीलं भूत्वा आत्मिकसुखानुभवप्रसक्तं स्यात्तर्हि 'पुण्यपापयोः' शुभाशुभकर्मणोः तत्फलानुभवस्य 'का कथा' का वार्ता ? वार्ताऽपि नास्ति । किं नामाऽस्तित्वम् ? अन्तरात्मभावेन ध्रुवः पुण्यपाप-प्रलयः । किं महत्त्वं? न किमपि इति । अयं भावः - बहिर्विषयेषु प्रवर्तमाना बुद्धिराभासिकसुखादिविषया भवति रागादिवशात् सैव बुद्धिश्चेदात्मनि प्रसक्ता स्यात्तर्हि रागादिनिरपेक्षतया सत् चित्सुखमनुभवेदिति । तत्र च कारणाभावात्पुण्यपापयोरनवसर इति आत्मनः स्वरूपसमवस्थानं लभ्यते ॥१५॥
आत्मभिन्ने देहे आत्मबुद्धेः किं कारणं ? आत्मन्येवात्मबुद्धेश्च किं कारणमिति सन्देहं निराकुर्वन्नाह -
देहो नास्मीति संवित्तेरात्मतत्त्वं दृढीकृतम् ।
अज्ञानाहितसंस्कारात्तमेवात्मतयेक्षते ॥१६॥ पद्मप्रभा० देहो'इत्यादि, आत्मना एव आत्मा चिन्तयति, यदहं - आत्मा देहो' शरीरं नास्मि । अयमर्थः- अहं देहो नास्मि, अहं तु शरीरात्पृथगात्मसंज्ञकं वस्तुतत्त्वमस्मि । 'अहं' देहो नास्मि इत्याकारक संवित्तेः' संवेदनात् पुनः पुनः चिन्तनादनुभवात् आत्मतत्त्वं दृढीकृतं' अर्थात् आत्मनि आत्मबुद्धिः स्थिरा भवति । इत्यनेन श्लोकार्थेन विवेकालोकवतां देहाध्यासविप्रमुक्तानां केषाञ्चिदात्मन्येव या आत्मबुद्धिर्जायते सा कथं - केन कारणेनेति शङ्काशङ्कनिरस्तः । अथ देहे आत्मबुद्धिः कथं भवतीति सन्देहापोहार्थमाह - 'अज्ञानाहित संस्कारात्' अज्ञानकृतवासनावशात् 'तमेव देहमेव आत्मतया'ऽऽत्मबुद्ध्या 'ईक्षते' पश्यति । देहस्वरूपस्याज्ञानादेव देहमात्मतया मन्यते मूढात्मान इति गर्भः ॥१६।।